पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०
नातिशतके


"कुत्रचित्पदमध्ये तु यतिमिच्छन्ति सूरयः ।
यत्र पूर्वापरौ भागौ स्यातामेवैकवर्णगौ ।”

इति दत्तिलवचनमपि समाधातुं न शक्नोति ; पूर्वापरभागयोरेकवर्ण- गतत्वाभावात् ; निरंकुशाः खलु कवयो भवन्ति सर्वपथीनाः इत्यल- मतिप्रपञ्चेन ॥

व्यालं बालमृणालतन्तुभिरसौ रोद्धुं समुज्जृम्भते
भेत्तुं वज्रमणिं शिरीषकुसुमप्रान्तेन सन्नह्यति ।
माधुर्यं मधुबिन्दुना रचयितुं क्षाराबुधेरीहते
मूर्खान्यः प्रतिनेतुमिच्छति बलात्सूक्तैः सुधास्यन्दिभिः ॥

व्या--.-अथ मूर्खानुनयेच्छायाः अत्यन्ताविवेकितामाह - व्याळमिति । असौ पुमान । व्याळं दुष्टगजं - न तु साधारणजन्तु- मित्यर्थः॥ नि - "व्याळो दुष्टगजेसर्प" इति विश्वः । बालमृणाल- तन्तुभिः कोमलविसकिसलयसूत्रैः - ईषन्निरोधस्याप्यनुपयुक्तैरिति भावः। रोद्धुं नियन्तुम् । समुज्जृम्भते कृतप्रयत्नो भवतीत्यर्थः । तथा वज्रमणिं हीराख्यमणिविशेषम् । अलोहलेख्यमपीति भावः - नि - 'हीरोवञ्रश्चकथ्यत' इति हलायुधः। शिरीषकुसुमस्याति- कोमलपुष्पविशेषस्य - प्रान्तेनाञ्चलेन । भेत्तुं विदारयितुम् । सन्नाह्यति उद्युङ्क्ते इत्यर्थः । तथा क्षाराम्बुधेः लवणार्णवस्य - न तु स्वल्पजला- शयस्य । मधुविन्दुना क्षौद्रविप्रुषा - न त्वविच्छिन्न मधुधारासंपाते- नेत्यर्थः । माधुर्य मधुरगुणम् । रचयितुं संपादयितु मीहते काङ्क्षति ; कोऽसावित्यत आह ; यः पुमान् । बलाद्वापाटवात् । सुधास्यन्दिभि-