पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
भरत चरिते'


धातुद्रवक्षोभितरक्तधारा-
 स्तिर्यग्दधानस्तटनिर्झराणाम् ।
नित्यं हिमानीघनकच्छुराङ्गः
 सि[१]रासु यो विद्ध इवावभाति ॥ ४६ ॥

अम्बुच्छटामंशुकसन्निकाशां
 महानदीनां बहुधा तु भिन्नाम् ।
बिभर्ति यः काञ्चनरत्नकान्तिं
 महानदीनां बहुधातुभिन्नाम् ॥ ४७ ॥

गौरीशरीर[२]च्छुरितार्धभाग-
 मर्धेन्दुपीयूषनिषिक्तनेत्रम् ।
पश्यन्ति यस्मिन् परमेश्वराख्यं
 तज्जङ्गमं ब्रह्म समाधिभाजः ॥ ४८ ॥

नालीकरागेण समुज्ज्वलेन
 कृशानुभावं वहते य एकः ।
नालीकरागेण वदामि किञ्चित्
 कृशानुभावं कुरुते व मेरुम् ॥ ४९ ॥

तमित्थमाराध्यगुणं गिरीन्द्र-
 मुद्रीक्षमाणः सुचिरं पुरस्तात् ।
स जग्मुषां क्षोणिभृतामधीश-
 स्तं तस्थुषा नाथमथानुमेने ॥ ५० ॥

अथास्य भूभर्तुरुपत्यकाया-
 मुपेल वाहाः स्थपुटोपलायाम् ।


  1. 'सीरायुधो वि',
  2. 'रेण घृतार्ध' ख. पीठः.