पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५९
षष्ठः सर्गः ।


श्यामया सरभसोपगूढया
 प्रत्युपोढतिमिरागुरुद्रवम् ॥ २२ ॥

आततज्यमिव भृङ्गमालया
 मृज्यमानमिव शीतरोचिषा ।
कृष्यमाणमिव मातरिश्वना
 कौमुदं धनुरभून्मनोभुवः ॥ २३ ॥

केवलं जलमयो न सागर-
 स्तत्र शीतरुचिना विवर्धितः ।
अप्यसौ विटजनादृतो मुहु-
 र्योषितां मनसि रागसागरः ॥ २४ ॥

स्वां तनुं बहिरुपेत्य दर्शयन्
 धामजालकपथेन चन्द्रमाः ।
सेवते स्म करजालमर्पयन्
 योषितामिव मुखश्रिया जितः ॥ २५ ॥

कौमुदीत्रिपथगा महीतलं
 निर्मला हरिपदादुपेयुषी ।
कामिनामपि किमन्यदद्भुतं
 मानसंभृतमपाहरत् तमः ॥ २६ ॥

कामिनः कलुषितान् प्रियागृहं
 नेतुमाशु कुशला बभूव का ।
विद्रवीकृतशिला नु कौमुदी
 दूतिका नु कुशला तथाविधा ॥ २७ ॥