पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५८
भरतचरिते


सागरे सलिलकेलिलालसः
 स्तोकमुद्धृतकरो नभस्तले ।
दर्शितानन इवेन्द्रवारण :
 प्राचे साचि दहशेऽथ चन्द्रमाः ॥ १७ ॥

यामिनीरमणबिम्बमुल्बणं
 चक्रमायुधमिवाङ्गजन्मनः ।
आवभौ पयसि पाथसां निधे-
 रूर्मिंशाणकपणादिवोज्ज्वलम् ॥ १८ ॥

लम्बयन् घनतमास्तमोजटाः
 स्ता[१]रयन् दिवि शनैः शनैः करान् ।
भस्मपाण्डुरतनुर्निशाकरो
 नृत्यतः श्रियमवाप शूलिनः ॥ १९ ॥

इन्दुना कुमुदिनी विकासिता
 कर्कशा दृषदपि द्रवीकृता ।
तेन सा कमलिनी निमीलिता
 कः समस्तहृदयङ्गमो जनः ॥ २० ॥

गोकुलं निजमुदन्वदम्भसः
 क्षालितोत्थितमिवामलप्रभम् ।
श्यामलं तिमिरशष्पमण्डलं
 खादयन्निव पुपोष चन्द्रमाः ॥ २१ ॥

नीललाञ्छनधरं निशाकरं
 योषितः सरसमाशशङ्किरे ।


  1. 'सा' क. ग. पाठ:.