पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६
भरतचरिते


संगृहीतवसुजालमुज्ज्वलं
 भानुहेमकलशं दिनात्ययः[१]
न्यस्तवानिव पयोधिमन्दिरे
 लो [२]कसाक्षिकमलक्ष्यत क्षणम् ॥ ६ ॥

वारिवक्त्रविवरे विवर्तितं
 वीचिलोलरसनाविलोलितम् ।
नूनमूष्मघ[३]रमर्कमण्डलं
 वारिधिः सरभसं निगीर्णवान् ॥ ७ ॥

तप्तमाय समिवार्कमण्डलं
 वासरेण शुचिना चिरं धृतम् ।
क्षिप्तमम्भसि पयोनिधेरभूत्
 तस्य धूम इव मेदुरं तमः ॥ ८ ॥

पद्मिनी रविवियोगविहला ।
 भृङ्गराव कृतगद्गदस्वरा ।
श्लिष्यदम्बुजकराङ्गुलीदलै :
 प्राप्तिकालगणनामिवाकरोत् ॥ ९ ॥

इन्दिरामिव सरोजमन्दिरां
 रक्षितुं रविसमागमावधि ।
सन्ध्यया पिहितमम्बुजोदरं
 यामिकैर्बहिरकूजि षट्पदैः ॥ १० ॥

एकपङ्कजपलाशसंश्रितं
 प्राप चक्रमिथुनं वियोगिताम् ।


  1. 'ये' ख. पाठ:.
  2. 'सोपसा',
  3. 'अ' ग. पाठः.