पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अथ षष्टः सर्गः


पश्चिमे तद्नु पाथसां निधौ
 लम्बते स्म दिवसात्यये रविः ।
श्यामले वपुषि शार्ङ्गधन्वनः
 कौस्तुभो मणिरिवारुणच्छविः ॥ १ ॥

प्राप्य रक्तमलिनाम्बरां दिशं
 वारुणीं कुसुभितामिवाङ्गनाम् ।
दो[१]षमेनमपनेतु मम्बुधौ
 मङ्क्तुमुद्यत इवास्त भानुमान् ॥ २ ॥

लोहिताभ्रदुलमण्डलोज्ज्वलं
 रश्मि केसरपरागधूसरम् ।
भासते स्म विपुलं पयोनिधौ
 पुण्डरीकमिव भानुमण्डलम् ॥ ३ ॥

वीचिजालचटुले पयोनिधौ
 साचिमनवपुराबभौ रविः ।
इन्द्रनीलमणिगुम्फमण्डने[२]
 पद्मराग इव नायकीकृतः ॥ ४ ॥

खण्ड्यमानमृदु रश्मिसञ्चये
 हेमकुम्भ इव भानुमण्डले
सन्ध्यया जलॅनिधौ निपा[३]तिते
 रश्मिखण्ड[४]धरया समुत्थितम् ॥ ५ ॥


  1. 'रागदोषम' ख. पाठः.
  2. 'ले' ख. पाठः.
  3. 'पपाते :
  4. 'प' ग. पाठ:.