पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४
भरतचरिते


जलकणाङ्कितलम्बशिरोरुहं
 मृगदृशामनति[१]प्रकटं मुखम् ।
विगलदम्बुनवाम्बुद चुम्बितं
 तुहिनदीधितिबिम्बमिवाबभौ ॥ ५९ ॥

रशनया जलमूकतया स्थितं
 वसनयोः परिवृत्तिषु योषिताम् ।
प्रभुरहस्यविदामुचिता हि सा
 परिचितेऽपि कदाचन मूकता ॥ ६० ॥

अथ सरोनिकटे पटवेश्मभि-
 र्विहितराजगृहापणमन्दुरा ।
विरचिता वसतिर्नृपशासनाद्
 विवि[२]धपण्यकृतक्रय विक्रया ॥ ६१ ॥

त दनु तत्र समर्चितदैवतः
 समुचिता हृतिवीतपरिश्रमः ।
परिवृतः परिवारजनैर्निजै-
 र्दिवसशेषमुवास नरेश्वरः ॥ ६२ ॥

सुखतरमबलामुखापदेशं
 शशिशतमेतदनस्तशोभमास्ते ।
इति रविरवमानवानदीप्तिः
 स्फुटमपराद्रिगुहागृहं विवेश ॥ ६३ ॥

इति कृष्णविरचिते भरतचरिते पञ्चमः सर्गः ॥


  1. 'भि',
  2. 'हितप' क. पाठः.