पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३
पञ्चमः सर्गः ।


इति वदन् दयिताश्रवणोत्पलं
 वरतनोरहरज्जलधारया ॥ ५३ ॥
विलिखितं कुसुमायुधशासनं
 कुचतटे नखले (प? ख) निभाक्षरैः ।
चलदृशः सलिलोक्षितचन्दने
 जनतया सकुतुहलमीक्षितम् ॥ ५४ ॥
चकितचञ्चलपाणिवृताञ्चलं
 चलदृशः स्मरलोलदृशो युवा ।
निबिडनीविकमम्बरमम्बुभिः
 शिथिलतामिव नेतुमघट्टयत् ॥ ५५ ॥
गुरुतमां प्रमदासु शकुन्तलां
 हृदि वहन् ध्रुवमेष महीपतिः ।
पयसि न प्लवतामिति योषितः
 कनकशृङ्गजलैः सिषिचुर्नृपम् ॥ ५६ ॥
अथ तटानि समारुरुहुः स्त्रियः
 प्रशमितेऽम्बुनिपात महोत्सवे ।
नवमृणालसरोजपरिग्रहाः
 शरदि हंस्य इवानुसृताः प्रियैः ॥ ५७ ॥
सलिलसक्ततया लघु योषिता-
 मसदिवाभवदम्बरमूरुषु ।
किमसतापि सताप्युपयुज्यते
 स्वकरणीयविधावपटीयसा ॥ ५८ ॥