पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
भरतचरिते


कुपितयेव कयापि मुहुः स्थितं
 सपदि वञ्चयितुं प्रियमुक्षणैः ।
स तु शठः प्रणिधानपरोऽभवद्
 विहसिता च सखीभिरसौ मुहुः ॥ ४८ ॥

सुतनु ! मुञ्चसि[१] काञ्चनकङ्कणं
 ससलिलं सुभगाय रसोत्सुका ।
इति सखीभिरगद्यत कामिनी
 सपरिहासमपो[२]ढविभूषणा[३] ॥ ४९ ॥

अभिनवं मम गोत्रमिदं कृतं
 दयित! ते दयितं तदिहास्तु मे ।
यदि भवेयमभीष्टतमामुने.
 त्यपरयाम्बु गृहीतमुपेक्षितम् ॥ ५० ॥

नववधूवदनाम्बुरुहे मुहु-
 र्विनमिते जनसंसदि लज्जया ।
तदवलोकनकामितयापरः
 सलिलदण्डमुपनमिवार्पयत् ॥ ५१ ॥

लुठ[४]सि मे दयितास्तनमण्डले
 तदिह हार ! न सोढुमहं क्षमः ।
इति रुषेव युवा जलधारया
 प्रियतमोरसि हारमघट्टयत् ॥ ५२ ॥

अलमलङ्करणाय दृशोः श्रियः
 श्रवसि किं निहितेन मुधामुना ।


  1. 'सु,'
  2. 'वो' ख. पाठ:.
  3. 'णम् ॥',
  4. 'ति' क.पाठ:.