पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
पञ्चमः सर्गः ।


बडिशसूत्रमिवाम्बु मृगीदृशां
 मृदुलधारमपात्यत कामिभिः[१] ॥ ४२ ॥
करपुटादपरेण निपातितं
 सरलधारमभङ्गरयं पयः ।
सुचिरमास्त वधूश्रवणान्ति के
 रहसि वक्तुमिवास्य मनोरथम् ॥ ४३ ॥
प्रियकराञ्जलियन्त्रसमुत्थितं
 वलयितं यदवाप वधूमुखम् ।
क्षणमलक्ष्यत तज्जलमुज्ज्वलं
 दशनदीधितिचक्रमिवो[२]ज्ज्वलम् ॥ ४४ ॥
हृदयवल्लभ ! दुर्लभदर्शन-
 स्त्वमसि तत् कठिनं हृदयं तव ।
इति निगद्य कयापि समुत्थितं
 कमितुरार्द्रयितुं हृदयं ध्रुवम् ॥ ४५ ॥
कमलमर्पय तर्पयता जलै-
 रिति शठेन वधूः सहसोदिता।
प्रचुरमम्बु मुमोच विचक्षणा
 वचसि सापि परे नतु प[३]ङ्कजम् ॥ ४६ ॥
मधु पिपासति मुख्यमयं जनः
 सुतनु ! ते न कराम्बुरुहोद्भवम् ।
इति दृशा रमणेन समीरिता
 रविमुदैक्षत सस्मितमङ्गना ॥ ४७ ॥


  1. 'भिः ॥ प्रि',
  2. 'वाबलम्' ग. पाठः.
  3. 'वारिजम्' व. पाठ:.