पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०
भरतचारते


जलविहारसमुत्सुकयैकया
 न दयिता[१]नुनयेन विनोत्थितम् ।
मृदुसुखादपि नीचजनादृतात्
 प्रभुधियां गरिमैव रसावहः ॥ ३७ ॥

रमणपृष्ठमधिष्ठितयान्यया
 जलमगाहि भयाकुलया किल ।
न पुनरात्मवपुर्गुरुतां जनः
 प्रिय इवार्हति वेदितुमित्य (द ? तः)[२]॥ ३८ ॥

उपसपत्नि समानमपि स्थितं
 प्रियमभङ्गरसौभगगर्वितम् ।
समधिरुह्य विधा [३]य विमानतां
 सुरवधूरिव कापि सरो ययौ ॥ ३९ ॥

अवजितं वनितावदनेन्दुभिः
 कमलषण्डमखण्डमपि ध्रुवम् ।
सरसि दण्डवदेव ननाम यत्
 सलिलवाद्य परिक्षुभितेऽम्भसि ॥ ४० ॥

शफरजालविलोलविलोचनैः
 सकुतुकं समवेक्ष्य विलासिनीः ।
ध्रुवमसौ सरसः पयसां चय-
 श्चपलवीचिभुजैः परिषस्वजे ॥ ४१ ॥

वपुषि यौवनवारिमहाहूदे
 तरुणलोचनमीनकुलाकुले ।


  1. 'तानयनेन वि',
  2. 'दि' ख. पाठ:.
  3. 'हा' ग. पाठ:.