पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८
भरतचरिते


उरसि वामदृशां विनिवेशिताः
 स्थगितहारमशोकतरुस्रजः ।
उपरि षट्पदधूमविनिर्गताः
 स्मरकृशानुशिखा इव रेजिरे ॥ २६ ॥
न वकुले चरसीति मृषा श्रुतं
 बकुलदाम विगुम्फितवानसि ।
इति कयापि गभीररुषा धृतं
 बकुलदाम घवेन निवेदितम् ॥ २७ ॥
सुरभि पाटलमुत्सुकमानसै-
 र्मधुलिहां मिथुनैरवलम्बितम् ।
न विधुतं रसभङ्गभियान्यया
 परसुखानुगुणा [१] हि रसज्ञता ॥ २८ ॥
इति विहृत्य चिराय नृपाङ्गनाः
 श्रमजवारिकणोल्लसिताननाः ।
कुसुमसङ्गमवासनया मुहुः
 स्तबकिता इव रेजुरमू: स्वयम् ॥ २९ ॥
पृथुलमौक्तिकशिक्यनिवेशनात् ।
 गुरुपयोधरहेमघटद्वयं
जघनमूरुकरीन्द्रकराश्रया-
 न्नियतमूहुरमूः श्रमकर्शिताः ॥ ३० ॥
मृदुरयाः स्तनकोकधराः स्त्रिय
 श्चलित मौक्तिकफेनविपाण्डुराः ।


  1. 'णाभिरसज्ञ्या ॥' क. पाठ:.