पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७
पञ्चमः सर्गः ।


नखरुचः कुसुमस्य व भेदकं
 गुणमसंशयनीक्षितुमक्षना ॥ २० ॥
असकृदुच्चलितोच्चकुचाग्रया
 विवृतचारुभुजद्वयमूलया !
कुसुमजालमहारि महेलया
 हृदयमेव न केवलमीशितुः ॥ २१ ॥
उदसितुं दृशि पुष्परजःकणान्
 मृगदृशः स्वभारविमर्दितः ।
नयनयोर्मुखमारुतमर्पयत्
 हृदि युवा मदनाशिमदीपयत् ॥ २२ ॥
चरणघातविधूतिषु योषितां
 व्यथितये [१]व मधुव्रतकूजितैः ।
विधुत पल्लवलोलकराग्रया
 लतियारमरावि ससंभ्रमम् ॥ २३ ॥
भ्रमरकान्तविलुप्तविशेषकं
 सखि ! मुखं हृदि माणवकत्तव[२]
इति सखी छलवादविचक्षणा
 कुपितया दयितं सम्यूयुजत् ॥ २४ ॥
क्षणमिहा[३]स्स्व विविक्तमिदं वनं
 शिथिलितं कलयामि तनांशुकम् ।
इति विलोभ्य स मुग्धवधूं युवा
 किमपरं कथनीयमतः परम् ॥ २५ ॥


  1. ‘यै’ ख. पाठः.
  2. 'बमू' क. पाठः.
  3. 'वा' ग. पाठः.