पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५
पञ्चमः सर्गः ।


अपिहिताः सहकारनवाङ्कुराः
 सपदि षट्पदनीलवरासिभिः ॥ ९ ॥
मृदुपलाशनखा[१]न् विपिनश्रियः
 समभिरज्य मधुर्नवयात्रकैः ।
अकृत यावकशेपमित्र क्षिपन्
 कुसुमजालम शोकमहीरुहे ॥ १० ॥
अभिमताश्चिरभोग्यरसोदयाः
 सुमनसो बकुलस्य मधुव्रताः ।
न विजहुः पतिता इति केवलं
 रसविदां रस एवं परं धनम् ॥ ११ ॥
मधुसभागममङ्गलदीपिका
 स्मरसुवर्णशिलीमुखसन्ततिः ।
(नव ? वन) भुवः पुलकावलिराबभौ
 कुसुमिता नवचम्पकमण्डली ॥ १२ ॥
मृदुलधौतधुनीघवलाम्बराः
 प्रकटिताचलतुङ्गकुचश्रियः ।
मधुसमागभसंभ्रममीक्षितुं
 हिमपटावरणानि जहुर्दिशः ॥ १३ ॥
हिमपटीमपनीय पुरःस्थितां
 यवनिकामिव चारु वनश्रियः ।
ननृतुरेव वसन्तमहोत्सवे
 पवनलोलितपल्लवपाणिभिः ॥ १४ ॥


  1. 'खा' ग. पाठ:.