पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
भरतचरिते


अथ महीलुठितैः कलुषीकृता
 स्थपुटभूषु परिस्खलनाकुला ।
उद्धिकल्पसगाहत तत् सरः
 सरिदिवोच्चरया तुरगावलिः ॥ ४ ॥
पृथुलकेवलपृष्ठनिषादिभिः
 परिजनैः परिषेवितपासवः ।
मृदु विरम्य विरम्य पयः पपुः
 श्रमविनिःश्वसिता[१]न्यनु वाजिनः ॥ ५ ॥
अथ निदाघमहोष्मभरं वहन्
 विकसदम्बुजकान्तिकरैः करैः ।
अपिबदम्बु मुहुः स महाजनो
 रसमयं सविदेव धराश्रयम् ॥ ६ ॥
अथ वनं नवपुष्पगुणोज्ज्वलं
 सपदि बद्धशिलीमुखमण्डलम् |
मधुरलक्ष्यत चापमिवोद्हहन्
 बहुमतं सहकारिमनोभुवः ॥ ७ ॥
मृदुलकोकिलनादमनोहरा-
 श्चलितकोमलरक्तजपाधराः ।
बकुलकुड्मलकोमलकण्टकाः
 स्मरयशांसि जगुर्वनदेवताः ॥ ८ ॥
विरहिदृष्टिविषादिव बिभ्यता
 ममतया मधुना परिरक्षितुम् ।


  1. 'तैरनु' ख. पाठ:.