तन्निधानमपां प्राप्य जनता मुमुदे तथा ।
चातकालीय तृषिता साम्बुवाहं नमस्त[१]लम् ॥ ७९ ॥
अथ राजाप्युपस्पृश्य कृत्वा माध्याह्विकीं क्रियाम् !
पपौ बि[२]सरसोन्मिष्टां पयो हंस इवामलम् ॥ ८० ॥
तदनु सरसस्तीरे तस्मिन् मनोज्ञलतागृहे
फणिपतिफगाभोगे तल्पे सुखासनमास्थितः ।
बलभरपरिभ्रान्तं पायो ददर्श विशां पति-
मधुरिपुरिव क्षीराम्भोधेर्गिरि क्षुभितं पयः ॥ ८१ ॥
|
इति कृष्णविरचिते भरतचरिते चतुर्थः सर्गः ॥
अथ मदस्रुतिशीकरवृ [३]ष्टिभिः
पृथुलपुष्करपूरितवारिभिः
क्षणमपूरि सरोजमुन्नतै-
रभिनवैर्जलदैरिव कुञ्जरैः ॥ १ ॥
निजकरोन्नमितैरमितैर्जलैः
परिगलद्भिरनिक्षण मुक्षिताः ।
जलधरैः[४] क्षरदम्बुभिरुक्षिताः
क्षितिघरा दध रेजुले ॥ २ ॥
निखिलतापमुष्णरूचेर्महः
शिशिरताभिव नेतुमभीन्छवः ।
उपरि चिक्षिपुरम्बु मुहुर्मुहु-
र्निजकरेण निषीय करेणवः ॥ ३ ॥
|
- ↑ 'स्थ' ख. पाट:.
- ↑ 'रवि' क. ख. पाट:.
- ↑ 'सु',
- ↑ 'रोन्नमितैरुपरि क्षणं क्षि' न. पाठ:.