पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
भरतचरिते


अदृष्टान्तमपि व्याप्तं दृश्यमध्यप्रमाणकम् ।
विपरीतमपि प्रेयः ससत्वमपि चञ्चलम् ॥ ३८ ॥
स्फीतजीवनमाशास्थनमम्बरोद्भारथपां वरम् ।
लघुकं सारसहितं रम्यं बहुपयोन्वितम् ॥ ६९ ॥
मन्ये यद्युदधिस्तावान्न शतांशमपि क्षमाः ।
पातुं बन्धुं लङ्घयितुं मुनिरामप्लवङ्गाः ॥ ७० ॥
मन्ये तद्भुवनं मातुंप्रबुद्धोडपि हरिः स्वयम् ।
पौरुषेणापि मानेन (न) क्षमः किंतुत क्रमैः ॥ ७१ ॥
यस्याद्यन्तौ परिच्छेत्तुं हरिर्ब्रह्मा च क्षमौ
नूनं तस्यापि देवस्य पर्याप्तं मज्जनाय तत् ॥ ७२ ॥
न मुनेः श्रवसा धार्यं नोवरेणापि कस्यचित् ।
अदस्त्वमितमेवात्तदन्यन्मानसम्मितम् ॥ ७३ ॥
अधोभुवनमप्येतत्पातालादतिरिच्यते ।
हिमोदास्पदमेवेदमहिमोदास्पदं हि तत् ॥ ७४ |
अनिर्मुषितपीयूषमनुद्धृतहिमाकरम् ।
इदमप्रोषितश्रीकमपूर्व[१]मुदधेः पथः ॥ ७५ ॥
अक्षुण्णलघु तत्तोयमनुद्गालितनिर्मलम् ।
अवीजितहिमस्पर्शसंस्कृतरसावहम् ॥ ७६ ॥
दृष्ट्वा च तत् सगे गौरं यशः स्फीतमिवात्मनः ।
अवरुह्य रथात् सेना विश्रमायादिदेश सः ॥ ७७
अथाधिष्ठातृभिः सेनाः प्रष्ठानाहूय सत्वरम् ।
सरःपरिसरे तत्र यथास्थानं निवेशिताः ॥ ७८ ॥


  1. 'वृत्तांहे' ख. पाठः.