पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
चतुर्थः सर्गः ।


अच्छैर्वीचिपटच्छेदैरासत्ताम्बुजरेणुभिः ।
उन्मृज्यमानं मरुता त्रिलोक्या इव दर्पणम् ॥ ५८ ॥
चन्दनालेपसरसमुरस्त्थलमिव क्षितेः ।
चर्मनिर्मोक धवलमधःक्षिप्तमिवाम्बरम् ॥ ५९ ॥
प्रबुद्धकमलालोल[१]मनन्तभुवनास्पदम् |
हरिरूपमिव प्राप्तं मत्स्यकच्छविग्रहम् ॥ ६० ॥
स्वर्णसारचितं रम्यं भोगिलोककृताश्रयम् ।
उद्गतामरसेनाढ्यं मेरुशृङ्गमिवापरम् ॥ ६१ ॥
अगस्त्यपानभीतानां निभृतानामुदन्वताम् ।
पयश्चक्रमिवान्यत्र सरोभावमुपाश्रितम् ॥ ६२ ॥
पतिप्रेमरसैः पूर्णमुर्व्यैव हृदयं निजम् ।
संदर्शितभिवामुष्य पत्युः सन्तापशान्तये ॥ ६३ ॥
वारिहारमयं गौरं प्रतिबिम्बाम्ब[२]रावृतम् ।
रसातलसमुद्गस्थमुपायनमिव क्षितः ॥ ३४ ॥
शिलीमुखगणाकीर्णं कलहंसमदध्वनि ।
व्यूहद्वारमिवोद्धान्तवाहिनीशतनिर्गमम् ॥ ६५ ॥
उद्दण्ड पुण्डरीकौघमन्तर्व्याप्तमहापदम् ।
महारण्यमिव स्वादुशीतामलकमुन्नत[३]म् ॥ ६६ ॥
प्रतिसङ्क्रमणभ्रान्त्या सुमन्दरविराजितम् ।
अन्तर्नवसुधापूर्णम *नुकुर्वाणमम्बुधिम् ६७ ॥


 अनुकुर्वाणम् अनुकरणशीलम् । ताच्छील्ये चानश् । अतः 'अनुपराभ्यां कृञ:' ( १. ३. ७९) इति परस्मैपदाकरण मिहादुष्टम् ।


  1. 'मन्तर्गुभु',
  2. 'धराहृतम्' ग. पाठः.
  3. 'तम् । अन्त' क. पाठः.