आक्रान्तवनमात ङ्गकुम्भप्रोत नखा[१]ङ्कुशम् ।
स सिंहमिषुणा कञ्चिदाधोरणमिवावधीत् ॥ ४८ ॥
अग्रेषूपरि पादानां पुरस्तिर्यक् च कीलिता ।
शरभस्य तनुस्तेन शरैः खट्टेव शायिता ॥ ४९ ॥
परिशेषयितुं स्वीयं भूदारत्वमसंशयम् ।
आजघान स भूदारानारण्यानपि पार्थिवः ॥ ५० ॥
कम्पयामास मूर्धानं शार्दूलः शरकीलितः ।
श्लाघयन्निव भूभर्तुस्चललक्षेषु दक्षताम् ॥ ५१ ॥
तस्य गाढप्रहारेण के[२]सरी कोऽपि मर्दितः ।
त्यक्तप्रभञ्जनक्रौर्यो निद्रां द्राधीयसीं ययौ ॥ ५२ ॥
प[३]तत्सु मृगराजेषु तेषामिव परिच्छदम् ।
जहार नृपतिगौरं चमरीग्यः प्रकीर्णकम् ॥ ५३ ॥
तेन कोदण्डकुटिलं विषाणयुगमुच्छ्रितम् ।
कृतं वन्यलुलायानां सज्याबन्धमिवेषुभिः[४] ॥ ५४ ॥
गहनं हृदयं तस्य स विपक्षस्य भूभृतः !
इति निःसत्त्वतां नत्वा धनुर्गुणम[५]वाक्षिपत् ॥ ५५ ॥
ततः स वान्त[६]फेनेषु वाहेषु तपनोष्मणा ।
उदन्यार्तेषु सैन्येषु पाथःपथमगाहत ॥ ५६ ॥
ददर्श च सर: स्वच्छ[७]मिन्द्रोत्खाताह्वयं नृपः ।
सप्तानामिव सिन्धूनां पाथःसारमिवोद्धृतम् ॥ ५७ ॥