धत्ते पयोधरतटे चिरमश्रुबिन्दून्
मुक्तामणीनिव भवद्गुणलब्धगुम्फान् ॥ १२ ॥
स्निग्धो जनः किमुत तां विरहाभितप्तां
वीक्ष्य द्विषन्नपि न जीवितुमुत्सहेत ।
सा तु स्वयं विशति कां नु दशां न जाने
मां पश्य वेपथुमतीमतिचिन्तनेन ॥ १३ ॥
सा प्रत्यहं विरहतिग्मरुचा गृहीता
बालापि पाण्डुरतनुः क्रशिमानमेति ।
प्रस्निग्धपुष्करपु[१]टे परिवर्तमाना
पीयूषदीधितिकलेव विलासशेषा ॥ १४ ॥
निद्रां न याति यदि याति सरोमहर्षा
सानन्दबाष्पनयना मुखमानमय्य |
व्रीलावशादभिमतान्यपि चुम्बनानि
बाला रुणद्धि नभसि प्रविसार्य पाणिम् ॥ १५ ॥
प्रापय्य मामभिमतं जनमाशु दीनां
निद्रा सखीव निपुणा स्वयमेव याता ।
एतावदेव हि सहायजनस्य कृत्यं
मद्भाग्यमन्यदिति शोचति सा विनिद्रा ॥ १६ ॥
दुग्धोदधौ विषविषादविमूर्छितेषु
देवेषु कैतवमकारि शिवेन किञ्चित् ।
पीतः सुधांशुरविषह्यरसस्तु मन्ये.
नीतः सुधांशुपदवीं स च कालकूटः ॥ १७ ॥