पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
भरतचरिते


तदीयमध्यकशिमैक साक्षिणी
 रराज रोमावलिरा स्तनान्तरात् ।
अनल्पशिल्पप्रणिधानशालिना
 स्वयम्भुवा सूत्रमषीव योजिता ॥ २३ ॥

तदीयलावण्य पयोधियायिभि-
 र्गभीरनामीह्रदवि[१]भ्रममालसैः ।
अगाहि नूनं युवनेत्रनाविकै
 र्मुहुर्मुहुस्तत्त्रीवलीमहोर्मिषु ॥ २४ ॥

विधाय पीनस्तनभारमुन्नतं
 विधातुकामश्च नितम्बमायतम् ।
तदीयमध्यक्रिया न डो[२]लया
 ध्रुवं विशश्राम तदन्तरा विधिः ॥ २५ ॥

मनोज्ञवृत्तोरुयुगावलम्ब[३]नं
 नि[४]तम्बचक्रं महदक्षहारकम् ।
सुदर्शनं सारमवाप्य मन्मथो
 रथी नु चक्री नु ज[५]गद् वशेऽकरोत् ॥ २६ ॥

महत्परामर्शमनोहरं मुहुः
 सुसन्धि वृत्तं सुकुमारमुज्ज्वलम् ।
ध्रुवं तदूरद्वय सर्गबन्धनं
 विधाय वेधा यशसामभून्निधिः ॥ २७ ॥

विमर्दनीया रसिकेन रागिणा
 तदीयजङ्घा परिवादिनीद्वयी ।


  1. 'सं' क. ख. पाठः.
  2. 'लोमया' क. पाठः.
  3. 'म्बि' ग.पाठः.
  4. 'मनोज्ञच' क. ख. पाठ:.
  5. 'जिगाय मेदिनीम् ॥' ग. पाठः.