कथ नु सा सप्तगुणैव नाभवत्
ततोऽधिकैरप्यवलम्बिता गुणैः ॥ २८ ॥
प्रशस्तमस्याः पदकर्म शंसितुं
पदं क्षमं हंसगतान्यपेक्ष्य यत् ।
तदस्य सर्गादुपसर्गमग्रत-
श्रकार वेधाः प्रपदं किमाशयः ॥ २९ ॥
त्रपागुणाकृष्टिविनम्रमध्यया
स्मरेण गाढं गुरुणा प्रणु[१]न्नया ।
तया च तस्मिन् घनपक्षपातिन-
स्ततः कटाक्षाः प्रथमे निपातिताः ॥ ३० ॥
स्पृहा नु मोहो नु मदो नु मान्मथ-
स्त्रपा नु लीला नु वितर्किता नु वा ।
अभूतपूर्वा हृदि कापि विक्रिया
विलोकयन्त्यास्तमनङ्गविभ्रमम् ॥ ३१ ॥
तदक्षियुग्मं घनपक्षसम्पुटे
निरुद्धबाष्पं चिरमास्त निचलम् ।
निशोदबिन्दुस्थगिताग्रकेसरं
निवातनिष्कम्पमिवोत्पलद्वयम् ॥ ३२ ॥
विलोकयन्ती नियतं पपौ गुणान्
प्रतापमिश्रान् मधुरान् महीभृतः ।
अधत्त सा स्वेदजलार्द्रमाननं
यतः सुधासिक्तमिवेन्दुमण्डलम् ॥ ३३ ॥