पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
भरत चरितं

विलोचनानन्दकरं शरीरिणा
 निसर्गसौरभ्यविलोलषट्पदम् !
सुधामधुस्यन्दि तदीयमाननं
 शशाङ्कबि (म्बा)म्बुजयोः (क्रि ? श्रि ) यं ययौ ॥

सदन्तमुक्ताधरविद्रुमोज्ज्वलं
 महाधनं वैश्रवणाप्तवीक्षणम् ।
न केवलं पद्ममभूत् तदाननं
 निधानपद्मं ह्यलकावलम्बनम् ॥ १३ ॥

शिखण्डिनस्ताण्डविनोऽपि चन्द्रका-
 स्तदीय केशश्रियमाप्तुमक्षमाः ।
यतेत तामाप्तुमथापि चामरं
 न कस्य बालत्वकृतं हि चापलम् ॥ १४ ॥

विभज्य बिम्बं शशिनः सलाञ्छनं
 ललाटपट्टे ललितभ्रु कुर्वता
परार्धनीलाङ्कसुधार्द्रलोहितैः
 कृतं तदक्षिद्वितयं नु वेधसा ॥ १५ ॥

तदीयगण्डस्थलरत्नदर्पणौ
 क्रमेण वैशद्यविशेषमापतुः ।
प्रकीर्णकर्णोत्पलरेणुराजिभिः
 प्रमृज्यमानाविव यौवनश्रिया ॥ १६ ॥

द्विजावलीं तन्मुखचन्द्रगामिना
 विलोक्य गूढामिव जातमत्सरा ।