पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
भरतचरिते


अथ द्वितीयः सर्गः ।


अथ प्रसादं वलहन्तुरक्षतं
 मणौ तनीयस्यपि तेजसां निधौ ।
वटाग्रधाम्नीव हरौ नराधिपः
 क्रमाद् विशश्वास विलोकयन् जगत् ॥ १ ॥

स जातु पश्यन् मणिना जगत्त्रयं
 विरोधिसत्त्वप्रशमौषधाचलम् ।
भवो[१]न्नता नोकहतक्षणोद्धनं
 घनान्तरध्वान्तनिरासवासरम् ॥ २ ॥

उपर्यु[२]पोढं पृथुलैः पयोधरै-
 र्मुनीन्द्रतेजः शिखिधूम सप्रभैः ।
तपःप्रतापैरिव दूरनिर्जितै-
 रसम्प्रविष्टं तपनातपोष्मभिः ॥ ३ ॥

उपेतमृक्षैर्घनभावमेदुरं
 समुल्लसच्चित्रशिखण्डिमण्डलम् ।
विपक्रिमश्रीफलभोगिभिः श्रितं
 वियत्समाहारमिवार्पितं क्वचित् ॥ ४ ॥

प्रफुल्लपुन्नागलवङ्ङ्कगर्भकं
 विनम्रशाखाञ्चलचूर्णकुन्तलम् ।
स्थितं धरित्र्या इव केशसञ्चयं
 ददर्श कण्वस्य ऋषेरथाश्रमम् ॥ ५ ॥

भनेकशाखादृढमूलशालिनां
 फलप्रदानामपि कार्यतः स्वतः ।


  1. वाहता' क. ख. पाठ:.
  2. 'पेतं पृ' ग. पाठः.