पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथमः पग


ततस्तुराषाडपि गाढविद्धः
 शिलीमुखेस्तस्य बिभेद्‌ वक्ष
तैराहतः सोऽपि वि्घूर्णितोऽभूत्‌
 कल्पान्तवातैरिव वारिराशिः ॥ ६५ ॥

अस्त्राण्यमर्षादथ योजयन्तं
 निवार्य वास्तोष्पतिरेनमूचे
सर्वं मयेैतत्‌ त्वदनुग्रहार्थं
 प्रवर्तितं वृत्तमवेहि राजन्‌ ! + ६६ ॥

समुद्रनिक्षिप्तमथोद्गतांशु
 बलाहकच्छन्नमिवार्कबिम्बम्‌ ।
तस्मै जगद्दर्शननामधेय-
 मादर्शेरत्नं मघवा दिदेश ॥ ६७ ॥ ।

आह स्म चेदं यदि चेच्छसि त्वं
 दूरस्थितं वस्तु तिरोहितं वा ।
दृश्यं तदस्मन्निखिलं तवास्तु
 दृश्यो भव त्वं च॑ तथाविन ॥ ६८ ॥

अथ सकलमहीभृच्चक्रलक्ष्यप्रतापाः
 श्रुतिसुखमनुभुय स्तोत्रबन्धं च सुराणाम्‌ ।
दिवससुरनराणामीश्वराः स्फीतभासः .
 प्रययुरुदयशैलं द्यां प्रतिष्ठानकं च ॥ ६९ ॥

इति कृष्णविरचिते भरतचरिते

प्रथमः सर्गः ॥