पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२
भरतचरिते


आपूरितः क्षोभविवृद्धसत्त्वः
 सद्यो जजृम्भे जगतीशसिन्धुः ॥ ५९ ॥

अवोचदित्थं नरलोकपालः
 सविस्मयोऽसौ सुरलोकपालम् ।
अधीश्वरं त्वां सकलस्य जन्तोः
 कथं प्रहर्तुं प्रयते बिडौजः ! ॥ ६० ॥

इयं हि मां सां[१]शयिकं तनोति
 प्रतीक्ष्यता ते प्रतिपक्ष[२]ता च ।
हविःस्रुचौ वा किमुपादीत
 धनुःशरौ[३] वा किमयं भुजो मे ॥ ६१ ॥

इति ब्रुवन्तं बलभिद् बभाषे
 सान्त्वं समन्तोरुपहासवादः ।
विपक्षभावं भजता मवेहि
 महीभृतां मद्भिदुरं यथार्थम् ॥ ६२ ॥

तथासि चेन्निर्विशयः समीके
 मच्चापमुक्तैर्विशिखैरुरस्तः
आस्रावयिष्यामि सुधां निपीतां
 ययासि जैवातृकतां प्रपन्नः ॥ ६३ ॥

इतीरयित्वा नृपतिः पृषत्कै-
 रापादचूडं निचखान शक्रम् ।
आपुङ्गमग्नैः स च तैर्विरेजे
 वहन्निवाक्ष्णामपरं सहस्रम् ॥ ६४ ॥


  1. 'सं',
  2. 'क्ष्य',
  3. रानू' क. ख. पाठः,