पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११
प्रथमः सर्गः ।


इतःपरं निस्त्रप ! दृश्यसे[१] चेद्
 बाणा: परप्राणहराः प्रमाणम् |
संसर्गयोग्या यदि वो न मर्त्त्याः
 शून्यं पुरं या[२]त वनं वियद्वा ॥ ५४ ॥

इतीरयित्वा स मुमोच पूर्वं
 सन्धित्सवे[३] चित्ररथाय बाणम् ।
स तेन मुक्तो हृदयं विवेश
 हितोपदेशो बलवानिवास्य ॥ ५५ ॥

अविह्वलश्चित्ररथोऽपि तूर्ण-
 माकर्णमाकृष्य शरं मुमोच !
विवेश सोऽपि क्षितिभर्तुरन्तः-
 सत्त्वावधिज्ञानकुतूहलीव ॥ ५६ ॥

एवं तयोस्तुल्यबले प्रहारे
 चिरं प्रवृत्ते कलहान्तमिच्छन् ।
बलिं त्रिधामेव भुजङ्गमास्त्रै-
 र्महारथश्चित्ररथं बबन्ध ॥ ५७ ॥

ततो विहस्ते पतिते च तस्मिन्
 विवृद्धमन्युः शतमन्युरेनम् ।
धनुर्गुणाघट्टनधीरनादै-
 र्भित्त्वा नभश्चक्रमिवाससाद ॥ ५८ ॥

ततो महेन्द्राचलशृङ्गसङ्गि-
 कोदण्डमेघच्युतवाणवृष्टया ।


  1. 'ते',
  2. वायतनं' ग. पाठ:.
  3. 'ते' क. ख. पाठ:.