पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२४
भरतचरिते

तमयपाद्यादिभिरर्चयित्वा
 निजासनार्धे विनिवेश्य शक्रः ।
आश्लिष्टमालोक्य यथा ननन्द
 सद्यः प्रसूतं न तथा जयन्तम् ॥ २७ ॥

अगाधसत्त्वोऽपि हरिर्बभूव
 नरेन्द्रचन्द्रं प्रतिपद्य लोलः ।
आनन्दविभ्रान्तसहस्रनेत्रः
 संभ्रान्तपाठीन इवाम्बुराशिः ॥ २८ ॥

आपीतशिष्टाममृतस्य धारा-
 मार्द्रस्मितव्याजवतीं विधाय ।
सुखोपविष्टं निजविष्टरार्धे
 त्रिविष्टपेन्द्रः पृथिवीन्द्रमूचे ॥ २९ ॥

प्रेयस्तवाभ्यागमनं ममेति
 वक्तुं न साक्षात् स्वजनेषु युक्तम् ।
आचारमात्रेण तु वाच्यमेव
 पुत्रेऽपि नूनं गृहमभ्युपेते ॥ ३० ॥

निहत्य दैत्यानमरैरवध्यान्
 दिवं भवान् भूमिगतो भुनक्ति ।
स्वस्था वयं केवलमाज्ञयैव
 बिभर्षि लोकद्वितयं यतस्त्वम् ॥ ३१ ॥

[१]तावशिष्टाः समरे त्वया ये
 स्वपक्षमुत्थाप्य समुत्पतन्तः ।


  1. 'न' ख. पाठः.