पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२३
द्वादशः सर्गः ।


आलम्बनायैव कटाक्षवल्ली-
 मवाप वृन्दारकसुन्दरीणाम् ॥ २१ ॥

उद्घाटितैरिकवाटनेत्रै-
 रुद्वीक्षमाणामिव कौतुकेन ।
लोलैः प्रनृत्तामिव केतुपट्टैः
 पौरन्दरीमाप पुरीं नरेन्द्रः ॥ २२ ॥

सम्भावयिष्यन् नरलोकपाल-
 मभ्युद्गमेन त्रिदशाधिनाथः ।
दैतेयरक्ताक्तचतुर्विषाण-
 भैरावतं वारणमारुरोह ॥ २३ ॥

अन्योन्यसंघट्टितपत्र पार्श्वौ
 विरेजतुस्तौ विशिखां विशन्तौ ।
आकाशवीथीमवगाहमानौ
 भास्वन्मृगाङ्काविव तुल्यकालौ ॥ २४ ॥

रत्नोपलादर्शसमुद्गहस्ताः
 कल्याणमाल्याभरणा नरेन्द्रम् ।
प्रत्युद्ययुस्तं सुरवारकान्ताः
 सञ्चारकल्या इव कल्पवल्ल्यः ॥ २५ ॥

पत्राद्वारुह्य नरामरेन्द्रौ
 सभां सुधर्मा समवापतुस्तौ ।
उत्तुङ्गचामीकरचारुवप्रां
 शुभां सुमेरोरिव केसरीन्द्रौ ॥ २६ ॥