पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११३
भरतचरिते


विनिहिता विजयाङ्कशिलोदधे-
 स्तटभुवि प्रतिमेव जयश्रियः ॥ ३४ ॥

अयमपि क्षितिधारणकर्मणा
 क्षितिभृदेव बलेन विलङ्घयताम् ।
इति स सह्यमलङ्घयदुच्छ्रितं
 कटकदुर्गधरं कनकाश्रयम् ॥ ३५ ॥

तटभुवि स्फुटितोज्झितबीजया
 विततया सुरभीकृतमेलया ।
पपुरमुष्य बलानि यथेप्सितं
 तदनु सह्यभुवां सरितां जलम् ॥ ३६ ॥

अथ गिरेरिव पक्षपरम्परां
 जलनिघेरुपरि प्रविसारिताम् ।
परशुराममहास्त्रविनिर्मिता-
 भवततार महीं स महारथः ॥ ३७ ॥

कलितनीतिरसौ कि[१]ल केरल-
 क्षितिपतिः पुनरात्मसमर्पणात् ।
अनुविवेश शशीव दिवाकर
 रुचिरया क[२]लया भरतं विभुम् ॥ ३८ ॥

तदनु पश्चिमसागरपारगं
 समधिगम्य स राजकमण्डलम् ।
वसुचयं हरति स्म यथोचितं
 न तु निसर्गकृतां श्रियमक्षताम् ॥ ३९ ॥


  1. 'क'gक. पाठः.
  2. 'कु' ख. ग..पाठः.