पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११७
एकादशः सर्गः ।


यवनसैन्यममन्यत दुर्जयं
 निजधनुर्नमनेन विना नृपः ।
न खलु द[१]ग्धुमृते बडवानलं[२]
 प्रभवति प्रसभं पयसां निधिम् ॥ ४० ॥

न हि शराः किल केवलमाशुगाः
 प्रहरता भरतेन समर्थिताः ।
युधि गताः प्रसभं हतशेषता-
 मसुहृदोऽपि भयेन यदाशुगाः ॥ ४१ ॥

करमवाप नृपो यवनाधिपा-
 दमयमात्मपदं च ददौ स्वयम् ।
उपकृतो (पि ? हि) महानुपकारिणा-
 मुपकरोति पुनर्द्विगुणोदयम् ॥ ४२ ॥

मधुरसावनभूषु निषेदिवा-
 नजिनकम्बलरत्नवतीषु सः ।
अनुबभूव ज[३]यश्रियमूर्जितां
 [४]नरसार्द्रहिमाम्बुह्रतश्रमः ॥ ४३ ॥

अथ दिशं द्रविणेशवशीकृता-
 मभिजगाम जयाय जनाधिपः ।
क्षितिभृतां कटकं पथि मर्दयन्
 वनकरीव बलं महदाश्रितः ॥ ४४ ॥

मथितसिन्धुपतिर्जगृहे श्रियं
 मणितुरङ्गमरत्नपुरस्कृताम् ।


  1. 'दुग्धमृ' ग. पाठ:.
  2. 'ल' क. पाठः.
  3. 'मुस्खश्रि' ग,
  4. 'सघनसारहि क. ख. पाठः.