पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११५
एकादशः सर्गः ।


सलिलकेलिषु चोलमृगीदृशां
 कुचविघट्टनयेव कृतश्रमा ।
भरतकुञ्जर कुम्भतटाहर्ति
 घनतमामसहिष्ट सरिद्वरा ॥ २९ ॥

नगरपञ्जरनिमितविग्रहं
 तदनु चोलमृगेन्द्रमसौ नृपः ।
अभयदाननि[१]वर्तितविक्रि[२]यं
 नमयति स्म करग्रहणेन तम् ॥ ३० ॥

अथ जयाय स पाण्ड्यमहीपतेः
 कटकमाभरणं प्रथितं भुवः ।
कनकसारविनिर्मितमभ्यगा-
 न्मणिमयं मणलूरपु[३]राह्वयम् ॥ ३१ ॥

हृदि लुठन्नवमौक्तिकमण्डनां
 शफरलोलदृशं कुमुदस्मिताम् ।
बलभरेण ममर्द महीपतिः
 प्रियतमामिव रत्नसुवं नदीम् ॥ ३२ ॥

तदनु पाण्ड्यमखण्ड्य पराक्रमं
 तनुतरेण रणेन विजित्य सः ।
कनकमौक्तिकरत्नचयाञ्चितं
 करमिवाप करं विजयश्रियः ॥ ३३ ॥

जितवता भरतेन यशोर्थिना
 विलिखिता निजनामपदाक्षरैः ।


  1. 'बि' ग. पाठ:.
  2. 'ग्रहं न' क., 'क्रयं न' ख. पाठ:.
  3. 'समाह' ग. पाठ:.