पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११४
भरतचरिते ।

दवकृशानुशिखाख[१]चितारुणाः
 क्षितिधरा इव रेजुरनेकपाः ॥ २३ ॥

[२]तिरयेण चचार महार[३] थः
 फलसमाकलितागमनिर्गमः ।
दिशिदिशि भ्रमयन् करिणां घटा
 जलमुचां पटलीमिव मारुतः ॥ २४ ॥

स युधि कार्मुकदण्डमिवोद्धतं
 नरपति भरतः परिला[४]लयन् ।
करभरेण निपीड्य वशीकृतं
 नमयति स्म न खण्डितवानमुम् ॥ २५ ॥

अथ महेन्द्रमहाकटकोदरे
 नरपतेर्मणिवप्रशिलातले ।
विलिखिता विजयस्तुतिपद्धति-
 र्भुवि नरैर्दिवि कीर्त्तिधरैः सुरैः ॥ २६ ॥

नरपतिः प्रययावथ दक्षिणां
 दिशमनेकजनेशनिषेविताम् ।
उदधिपानविमोक्षणकर्मणः
 स्वयमगस्त्यमुनेरिव दक्षिणाम् ॥ २७ ॥

मथितमालवकान्ध्रमहोदधिः
 स जितकाञ्चिरुदश्चितविक्रमः ।
अथ ददर्श कवेरसुतां नदीं
 जलनिधेरिव बन्धनश्शृङ्खलाम् ॥ २८ ॥


  1. 'चकिता',
  2. 'रथर',
  3. 'नो' ग. पाठः.
  4. 'को' क. ख. पाठः.