प्रथमतः क ( इ ? यि ) मामतिलङ्घये-
दिति नृपेण जनः परिचोदितः ।
क इति भिन्नपदं परिकल्पय
न्नहमहं क्षम इत्यतरन्नदीम् ॥ १८ ॥
अधिकमाश्रितरक्षणदीक्षितं
नयविदेनमशिश्रयदुत्कलः ।
तनुरपि प्रथतेऽधिकमाश्रितः
कुसुमगन्ध इवानिलमुत्थितम् ॥ १९ ॥
अथ कलिङ्गमनेकपविग्रहं
भुवि महेन्द्रमिवान्यमुपस्थितम् ।
बलभरेण ममन्थ[१] महाम्बुधिं
हरिरिवाद्रेव[२] रेण नरेश्वरः ॥ २० ॥
सच कलिङ्गनरेन्द्रमहाम्बुधि-
र्भरतबाडववह्निशिखावृतः ।
उपचितोऽयमनेकपयोधिभिः
प्रतिससार तमेव कृतोद्यमः ॥ २१ ॥
अथ मिथश्चतुरङ्गमभङ्गुरं
क्षणमवर्तत तुल्यबलं बलम् ।
न युधि यावदसौ भरतो धनु-
र्नमयितुं रिपुसैन्यमिवाग्रहीत् ॥ २२ ॥
भरतसायकनिर्दलिताः क्षणं
परिगलद्रुधिरोक्षितविग्रहाः ।