पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
भरतचरिते


जगति विस्तृत कीर्त्तिलताव[१]ले-
 र्गुरुमुपघ्नमिुवोपपयोनिधि ।
उपलदण्डमुदारपदाक्षरं
 नरपतिर्निचखान जयाङ्कनम् ॥ १३ ॥

तदनु नौषु विशेषविचक्षणाः
 स्थलचरा इव वङ्गमहीक्षि[२] तः ।
जलधिमेत्य गतागतवेदिनो
 विदधिरे भरतं घृतकार्मुकम् ॥ १४ ॥

तदनु मारुतमस्त्रमुदीरयन्
 मणिगणानिव शङ्खवरा [३] श्रयान् ।
पवननिर्घुतपोतसमाश्रया-
 नयममूनुदकर्षदुदन्वतः ॥ १५ ॥

जलमुचामिव मौक्तिकवर्षिणां
 क्षितिभृतां क्षितिपालमहोदधिः ।
वितरति स्म स जीवनमक्षयं
 विनम[४]तां समयादभिवर्षताम् ॥ १६ ॥

विजययष्टिमशे[५]षजनार्चितां
 त्रिपथगोदधिसंगमरोधसि ।
नरपतिर्निचखान शिलामयी-
 मभयदां प्रतिमा[६]मिव शाम्भवीम् ॥ १७ ॥


  1. 'श्रियं गु',
  2. 'भुजः ।',
  3. 'रवाश्र' ग. पाठः.
  4. 'मितं स' क. पाठ:.
  5. 'थो जगतोऽचिंताम्',
  6. भा' गं. पाठः.