पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०७
दशमः सर्गः ।


सारसाकुलिताम्भोजवदनेन सरोजिनी ।
भृङ्गस्वरेण गायन्ती राजहंसानतोषयत् ॥ ५२ ॥
रक्ता इव करन्यासैरद्वामीशस्य रागिणः ।
हृदयं दर्शयामासुर्गम्भीरमपि निम्नगाः ॥ ५३ ॥
कदम्बशाखां संत्यज्य जीर्णामकुसुमोद्गमाम् ।
मधुव्रताः किं नलिनीं व्रतभङ्गभयाद् ययुः ॥ ५४ ॥
नलिनीषु बभूव श्रीर्जातालीनां च सा श्रि[१] ये ।
आश्रितेषु हि दृश्यन्ते गुणभाजां हि सम्पदः ॥ ५५ ॥
अनुकूलमुपश्लिष्य कुर्वन् दन्तक्षतिं मुहुः ।
ममर्द निम्नगां गाढं रममाणो मतङ्गजः ॥ ५६ ॥
तदाशुकवयः प्राप्य बध्नन्तो मधुरां गिरम् ।
कणिकादानलुब्धेन निरस्ताः शालिशालिना ॥ ५७ ॥
नाम्ना राजापि नक्षत्रैः शुशुभे दिवि चन्द्रमाः ।
भरतस्तु महाराजः क्षेत्रैरुर्व्यामराजत ॥ ५८ ॥
इत्थं शरदमालक्ष्य दीप्तां शक्तित्रयीमित्र ।
यानमावेदयामासुर्भरतस्याथ मन्त्रिणः ॥ ५९ ॥
वेत्ति वेद्यं भवान् सर्वं तथाप्यस्माभिरुच्यते ।
विज्ञानन्तोऽपि विज्ञाप्याः प्रभवो ह्यनुजीविभिः ॥ ६० ॥
थानकालममुं प्राहुः कालं शक्तोऽप्यपेक्षते ।
अकाले निहितं बीजं न शक्तमपि रोहति ॥ ३१ ॥
अत्युष्णे निर्जले काले यातुः सीदन्ति दन्तिनः ।
दन्तिभिर्दुस्तरा सेना भीमग्राहैरिवापगाः ॥ ६२ ॥


  1. 'अ' ग. पाठ:.