पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०६
भरतचरिते


सद्वर्त्म पिहित मेघैः शरदा विशदीकृतम् ।
अभूद् दोषाकरः शुद्धस्तपनस्तपनोऽप्यभूत् ॥ ४१ ॥
स्वच्छमभ्रमरं रेजे रेजे सभ्रमर सरः ।
शालयः कणिकां भेजुर्जलदाः कणिकां जहुः ॥ ४२ ॥
शिखण्डिभिरत्यक्तमदैः केकालीला विवर्जिता ।
उत्फुल्लकमले हंसैः के का लीला विवर्जिता ॥ १३ ॥
पाण्डेरैः पवनोद्धृतैः पयोदैर्द्यौरराजत ।
निसर्गलघुभिस्तूलैः समाकीर्णेव शल्मलिः ॥ ४४ ॥
आश्यानघनजम्बालं तारामुक्तास्तृतं नमः ।
अगस्त्य पीतनिस्तोयमनुचके पयोनिधिम् ॥ ४५ ॥
विद्युत्स्वर्णशलाकानां काषशाणान्नभस्तलात् ।
रेखास्वर्णमिवोन्मृष्टं शरदा शक्रकार्मुकम् ॥ १६ ॥
मलीमसघनाश्लेषैर्दूषितेव नभस्थली ।
ज्योत्सनासुरसरित्तोये गाहते स्म मुहुर्मुहुः ॥ ४७ ॥
प्रणम्येव प्रियां रात्रिं प्रसारितकरः शशी ।
प्रसादयामास मुहुः प्रवासकलुषीकृताम् ॥ १८ ॥
आशा विशालाः सञ्छन्नाः सवित्रा जीवनार्थिना |
प्रसारित करेणाशु कृपणेनेव दुर्शिताः ॥ ४९ ॥
संभोक्तुं सरितां सारं प्रच्छन्नैः करपातनैः ।
वेगमम्बुधियात्रायां मन्दीचके दिवाकरः ॥ ५० ॥
स्निग्धशुद्धात्मपक्षाणां वाहिनीमध्यवर्तिनाम् ।
उत्थानं राजहंसानां बभूव विजये क्षमम् ॥ ५१ ॥


 * इह तङ् चिन्त्यः ।