पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९९
नवमः सर्गः ।


परिणीय तपोवने त्वया
 नवगर्भा निहिता शकुन्तला ।
अथ केसरिणीव वीरसूः
 सुतमेनं सुषुवे सुमध्यमा ॥ ५१ ॥

तदसौ तव सुनुरिष्यतां
 तव चै[१]षा महिषी शकुन्तला
इह कण्वनियुक्तया मया
 त्वदुपान्तं विपिनादवापितौ ॥ ५२ ॥

इति साहितसारमेतयो-
 र्मुनिसन्दिष्टमुदीर्य भूभुजे।
विरराम गिरामविस्तरः
 प्रभुतन्त्रे हि नितान्तमिष्यते ॥ ५३ ॥

प्रियदारसुतावलोकना-
 दलमन्तर्हषितोऽपि पार्थिवः ।
पिदधे जनवादशङ्कया
 विकृ(ति ? तिं) छद्मकृतामिव श्रियम् ॥ ५४ ॥

प्रतिकूलमिवोपचक्रमे
 प्रतिवक्तुं परिशोधयन् प्रियाम् ।
कनकस्य हि[२] शुद्धिरिष्यते
 दहनच्छेदनिकाषलक्षणा ॥ ५५ ॥

मुनयः खलु सत्यवादिनः
 त्वमपि प्रत्ययिता तथाप्यहम् ।


  1. 'चेयं म' ग. पाठः.
  2. 'वि' क. पाठः.