पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
भरतचरिते


नृपमन्दिरमिन्दिराश्रयं
 विविशुस्ते भ्रमरा इवाम्बुजम् ॥ ४५ ॥

ददृशुर्मणिविष्टराश्रयं
 कमलोल्लासकरं नरेश्वरम् ।
उदयाचलशृङ्गसङ्गिनं
 दिवसाधीशमिवोज्ज्वलद्युतिम् ॥ ४६ ॥

शिरसैव दधार साञ्जलिं
 परिणेतुः प्रणता शकुन्तला |
वदनेन्दुरुचेव मीलितं
 भुजनालद्वयमेकमम्बुजम् ॥ ४७ ॥

घनमाच[१] रणभ्रु लज्जया
 धवलक्षौमपटावकुण्ठिता ।
विरराज तदा शकुन्तला
 शरदभ्रावरणेव चन्द्रिका ॥ ४८ ॥

धवलातपवारणादृते
 सितबालव्यजनद्वयं विना ।
उदितः सुरयोषिता तया
 नृपसूनुः पितुरग्रहीत् पदम् ॥ ४९ ॥

विजयस्व विशामधीश ! मां
 ननु माध्वीम[२] धुना स्मरि[३]ष्यसि ।
नहि जातुचिदाश्रितो जनः
 सुजनानां हृदयान्निवतते ॥ ५० ॥


  1. 'व' ख. पाठः.
  2. 'त्य' क. पाठः.
  3. 'रन्नसि' ग. पाठः.