पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९५
नवमः सर्गः ।


प्रणिपत्य मुनिं जगाद सा
 कृतकृत्योऽसि क एष ते जनः ।
अथवा निजकार्यनिःस्पृहः
 परकार्यैकपरो हि सज्जनः ॥ २९ ॥

सुर कार्यकृताभिसन्धिना
 भवतैषा परिरक्षिता वधूः ।
विजयार्थमसूत सा सुतं
 कुशला शक्तिरिवाप्तमन्त्रजा ॥ ३० ॥

मुनिरप्यवदत् सुराङ्गना-
 मथ संभाव्य यथार्हमर्हणैः ।
वशगामिव मन्त्रदेवतां
 निजनामस्मरणादुपस्थिताम् ॥ ३१ ॥

शिशुरेव मयाभिरक्षिता
 भवतीनां तनया मयि स्थिता ।
अधुना पुनरीदृशीं दशां
 प्रतिपन्ना किमियं विधास्यति ॥ ३२ ॥

कमितारमसौ नराधिपं
 भजतां सम्प्रति वीरसूः स्वयम् ।
कुसुमावनतेव मालती
 सदृशोच्छ्रायमुपघ्नपादपम् ॥ ३३ ॥

विलसत्पल्लवकान्तिधारिणीम् ।
 सदृशप्रसवानुबन्धिनीं