पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९४
भरतचरिते


प्रतिशब्दितुमुद्यताभवद्
 गुणदोषोपहतेव वल्लकी ॥ २३ ॥

मम पथ्यमपि त्वयेरितं
 हृदि दुःखान्तरमातनोति तत् ।
नहि किञ्चन पथ्यमेव यद्
 बहुदोषप्रकृतेरिवौषधम् ॥ २४ ॥

पितरि त्वयि जातमात्रया
 भरणस्नेहरसोऽय [१]मार्जितः ।
कथमद्य निरस्यते मया
 हितकृद् देह इवायमात्मनः ॥ २५ ॥

महिषी च महीपतेरहं
 परवत्यस्मि स मे परा गतिः ।
अनयोः पुनरेकवृत्तिता
 नहि बाल्यस्थविरत्वयोरिव ॥ २६ ॥

करणीयमसंशयं वच-
 स्तव वेदस्य च तत्त्ववादिनः ।
अपि वेदवचः क्वचित् भवे-
 दयथार्थं न तथा भवद्वचः ॥ २७ ॥

अथ हारमनोज्ञतारका
 मुखशीतद्युतिकान्तिहारिणी ।
रजनीव शरीरधारिणी
 भुवि माध्वी ददृशे तयोः पुरः ॥ २८ ॥


  1. 'मयार्जि' ख. पाठः.