पृष्ठम्:भरतकोशः-३.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इयं भोजदेवेन मोक्षश्शृङ्गारस्याङ्गदयोक्ता । यथा-भोक्षश्श्रृङ्गारे सात्वती वृत्तिः । आवन्यां प्रवृत्तिः! लार्टीया रीतिः । स्वकीया नायिका। धीरप्रशान्तश्च नायकः ! तेषु सात्चती वृति । तदनुरूपरूपाङ्गत्वात् । तथाहि या सत्त्वतेनेह गुणेन युक्ता त्यागेन वृत्तेन समन्विता च सा सात्त्वती सत्त्ववतीह वृत्तिः । तदङ्गानि-उत्थापकः, पतिवर्तकः, सलापकः, संघात्यकः इति । सा तु या सात्वतेनेह गुणेन युक्तेत्यनेन सत्ववत सत्कारवतो धीरप्रशान्तादेनायकस्य मोक्षश्धृङ्गाराधिकारिणो ये गुणास्तदुपलक्षितां चेष्टामाचष्ट! सत्त्ववन्तो हि सत्कारवन्तो मोक्षश्ङ्गाराधिकारिण एवोच्यन्ते । त्यागेन वृत्तेन समन्विता चेत्यनेन सात्वतेन त्यागेन सान्त्वतेन वृत्तेन च समन्वितेति व्याख्या | यत्यैव द्रव्योत्सर्गसत्कारपूर्वकत्वफलनिरपेक्षमवृधा दानं च सूचयति । सत्कारपूर्वो हि त्याग । सत्कारपूर्वकं च वृत्तं इति । चकारातु लैकिकाचारपरित्यागमपि कथयति। हर्वोत्कटसंहृतशोकभावेत्यनेन ब्रह्मानन्दोपलम्भात्-अशेषदुः खक्षयमुपलक्षयति । सा सत्वती सत्वतीह वृत्तिरित्यने नात्यर्थसंज्ञायोगं विशुद्धसत्वनायकाश्रयं च द्योतयति। धूत्थापकेन तत्त्वजिज्ञासुभिःसन्धाय संभाषा िववादं बोधयति परस्परस्पर्धया अर्थपूत्थापनं ह्यत्थापक: परिवर्तकेन कुपथपरि त्यागात् सन्मार्गग्रहणमभिधते । प्रस्तुतार्थपरित्यागाद्न्यार्थस्य भजनं हि परिवर्तकः । संलापेन विगृह्य परिभाषया चाल्पकथायां परपक्षदूषणमुपदिशति। साऽसिद्धानां वाक्यैः मिथोऽधिक्षेपको हि संलापकः | संघात्यकेन भाधकबाधकप्रमाणोपपत्तिभि : स्वपक्षस्थापनया परपक्षं प्रतिक्षिपति । कार्यमन्त्रार्थप्रभाबदैवा दिभिहिँ संघातभेद: सङ्कत्वकः। सेऽयं चतुरङ्का सात्वतीवृत्तिः । या सात्वतेनेह गुणेन युक्ता त्यागेन वृतेन समन्विता च । हृषत्कटा संहृतशोकभावा सा सात्वती नाम भवेतु वृत्तिः । स्तम्भस्तु निष्क्रियाङ्गत्वं प्रलयो नष्टसंज्ञता रोमाङ्गो रोमनिर्भः स्वेदश्शीकरनिर्गस: वैवण्ये वर्णनाशः स्याद्वेपथुर्गात्रकम्पनम् । अश्रु नेत्राम्बुवैखर्थ विस्थरत्वमुदाढूतम् सत्वादेव समुत्पतेः सात्विका इति संज्ञिताः स्तम्भ:स्वेदोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथुः। वैवण्यैभश् प्रलय इत्यष्टो सात्विकामता ७१६ इह हि सत्त्वं नाम मनःप्रभवं । नच समाहितमनस्वादुच्यते । मनसस्सभाधौ सत्वनिष्पतिर्भवतीति। तस्य च योऽसैौ स्वभावो रोमाञ्चाश्रुवैवण्वादिलक्षणेो यथाभावोपगतः स न शक्योऽन्य मनसा कर्तुमिति । लोकस्वभावानुकरणाच नाट्यस्य सत्त्व मीप्सितम् । को दृष्टान्तः । इहहि नाट्यधर्मप्रवृत्ताः सुख दुःखताभावा, तथा सत्त्वविशुद्धाः काय: यथास्वरूपा भवन्ति। दु:खन्नाम रोदनात्मकं, तत्कथमदुःखितेन । सुत्रं च प्रहर्षात्मक मुखितेनाभिनयेत्। एतदेवस्य सबै दुखीतेन प्रहृष्टनें वाऽश्रु रोमाश्चौ प्रदर्शयितव्यावितिकृत्वा सात्विका भावा इत्यभि व्याख्याताः सात्विकभाव भावस्य सुखदुःखाभ्यां के भेदाश्चेन्न कश्चन । ठयताळावसानस्य विषयेष्वप्रधानत सीदत्यस्मिन्मन इति व्युत्पत्तत्सत्त्वगुणोत्कर्षात्साधुत्वाध प्राणात्मकं वस्तु सत्वम्। तत्र भवाः सात्त्विकाः । ते च प्राण भूमिप्रसृतरन्यादिसंवेदनवृत्तयो बाह्यजडरूपभौतिकनेत्रजलादि विलक्षणा विभावेन रत्यादिगतेनैवातिचर्वणागोचरेणाहृता अनु भावैश्च गम्यमाना भावा भवन्ति । तथाहेि-पृथ्वीभागप्रधाने प्रणे सङ्कान्तचित्तवृत्तिगण: तम्भो िवष्टम्भचेतनत्वं, जलभागः प्रधाने तु बाष्पः, तैजसस्तु प्राणनैकट्यादुभयथा तीव्रातीव्रत्वेन प्राणानुग्रह इति द्विधा स्वेदो वैवण्यै च, तद्धेतुत्वाश्च तथा व्यव हारः। आकाशानुग्रहे गतचेतनत्वं प्रलय वायुस्वातन्त्र्ये तु तस्य मन्द्रमध्योत्कृष्टावेशात् त्रेधा रोमाश्ववेपथुस्वरभेदभावेन स्थिति सात्त्विका आङ्गिकेष्वेव पर्यवस्यन्ति तत्वतः । नटस्यातत्वरूपस्य किं तादात्म्यमतो न हि । स्तम्भादीनां सात्त्विकत्वं केवलानामिहोदितम् । अथ प्रबन्ननिर्वत्र्याः सात्विकाश्चेद्भवन्मते । कथमेवं वोभङ्गिरङ्गीकारोचितात्विह । एत एव प्रयत्रेन निवृत्थास्सर्व एव व रत्यादिस्थायेिनो व्यभिचारिण तथाहि विवदन्तयल सत्त्वे प्राचाटुका यथा। विकाराद्धातुसैरोधनिर्मितात्लान्विकान् जगुः भट्टोद्भटादयःश्वासोच्छासादेर्वासभाभयान् चिदंशो वायुसंरोधात्सिद्धासंवेद्यलक्षण चिराविरस्वरूपेण सत्वमित्यभिधीयते शिक्षाभ्यासाश्रितरमङ्गाद्वैनश्यकर्मणि भरत

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/४६&oldid=99388" इत्यस्माद् प्रतिप्राप्तम्