पृष्ठम्:भरतकोशः-३.pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अधिकाः सन्निपातः वट्शीर्षश्यां परिकीर्तिता आर्थिकं, भाषि, संकैि , खरान्तरं, औडुवं, षाडवै, गम्भीरभावो वामी च सूर्यत्रियोविदः ।। प्राज्ञो गुणलवल्यापि प्रहको रसिकस्तथा । नेो भिन्ना न च संहिता परिगतान्योन्यानुरागस्पृहाः। तिष्ठयुः परितोऽस्य रक्षणविधाबुद्यत्समस्तायुधा । राजाद्युतमनायकप्रतिनिधिः स्वस्थः कुलीनो युवा पाक्षापाक्षविशेषवित्स्थिरतरप्रेमा कलाकोविदः । गीतकः सकलामार्थनिपुणो विद्वप्रियः सत्यवान्। रूपेण ख्रवित्रविद्रुभगणग्राही कृतक्षेो गुणी धर्मिष्ठ रसँभावविजनमनोहारी सुवेषः सुखी । शृङ्गारी हुदोऽनपेक्ष्यविभवः कीर्तिप्रियः कामुकः प्राप्तौचित्यविशेषविच्छुचिमता प्रोक्तस्सभाधीश्वरः। १भापतिस्थानम् पुरतो रङ्गपीठस्य मध्यपङ्क्त भार म् क्रोण उक्षणं तेषां संक्षेपेणामिधीयते । सम्यक् अणीतमालोक्य मतङ्गदिमहर्षिभिः ॥ भः । चारुचन्द्रोदयेऽनल्पपुष्पप्रकरशोभिते । राज्यलक्ष्मीविलासैकस्थानमास्थानमण्डपे न्यसेसिंहासनं राज्ञः प्राङ्मुखं वाप्युदङ्भुखम् । तस्मिन्नुपविशेद्राजा राज्ञी तस्याथ वामतः । तिष्ठेदुभयतस्तं च चामरप्राहेिणीद्वयम् । पार्श्वयोश्च विलासिन्यो दक्षिणे मन्त्रिमण्डलम्। मन्याचा मण्डलाधीशाः प्रधानानि तु पृष्टत:। तिष्ठेयुर्दक्षिणे पार्श्व विद्वांसः कवयोऽपि च । वामे वाग्गेयकाराद्या निषीदन्ति महीपतेः । परमण्डलेिन: पश्चात्पृष्टे मागधादयः । गान्धर्ववृन्दै पुरत: पाश्चात्यामङ्गरक्षका प्रतीहाराः पुनरे सुभटाः पार्श्वयोर्द्धयोः। यथौचित्यमथान्यापि निविशेरन् सभोचितः । पृष्ठभागं परित्यज्य द्वारं कुर्याद्यदृच्छया । इत्थं भवति भूपानां सभीचैः संवृतायता ।। चारुचन्द्रोदये तल्पे पुष्पप्रकरसुन्दरे करागरुकस्तूरिधूपधूमादिवासिते राज्यलक्ष्मीविलासैकस्थाने श्रीरङ्गमण्डपे । न्यसेसिंहासनं राज्ञ प्राङ्मुखं वाप्युदङ्मुखम् ॥ तस्मिन्नुपविशेद्राजा राज्ञी तस्याथ चागतः । तिष्ठयुर्दक्षिणे पार्श्व विद्वांसः कवयोऽपि च । वामे वाग्गेयकाराश्च निषीदन्ति महीपतेः । परिमण्डलिनः पश्चात्तत्पृष्टमागधादयः । गन्धर्ववृन्दं पुरतः परिधावङ्गरक्षकाः। प्रतीहारा पुनद्वारे सुभगाः पाश्वयेद्वयोः । यथोचित्यमथान्येऽपि तिष्ठयुर्ये विचक्षणाः । विलासिनो विलासिन्यः परितोऽन्तःपुरस्य च । पुरतेोऽपि नृपस्य युः पृष्ठभागेऽपि भूपतेः । चारुचामरधारिण्ये रूपयौवनसैभृताः । पृष्ठभागं परित्यज्य द्वारं कुर्याद्यदृच्छया। सन्निवेश्य सभामेवं राजा सङ्गीतमीक्षते। सा सभा यत्र सङ्गीतं सा सभा यत्र पण्डिताः । सा सभा या शास्त्राणां कथानादवितृम्भणम् ॥ हम्मीरः