पृष्ठम्:भरतकोशः-३.pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मन्द्रे च अध्यमे तारे सञ्चारीति स्वरः स्फुटम् । अथ सञ्चारिजान्भूयः कीत्यैमानान्निवोधत । मन्द्रस्तथा प्रसन्नादिबिन्दुः प्रेङ्गेोतिस्तथा । संनिवृतप्रवृत्तश्च रेवितः कम्पितः स यः । आषतिपरावृतौ ज्ञेयाः सञ्चारिणस्तथा । यदान्येनाङ्गिणान्योऽङ्गिरुत्क्षिप्योक्षिप्य कुञ्चितः । युज्यते तिर्यगन्यस्तु सर्पन् सङ्कारिता तदा । सजीवलक्षणम्-(आहार्याभिनयः) सजीवै प्राणिनां रङ्गे प्रवेशः परिकीर्तितः । द्विचतुश्चरणौ पादरहितश्रेति सविधा । द्विपादस्तप्त विज्ञेयो देवमानुषपक्षिणः । चतुष्पादस्तु पशवः पादहीना भुजङ्गमाः । सञ्जीवः--(प्रवेश) प्रवेश: प्राणिनां नाट्ये सञ्जीव इति कथ्यते त्यहस्तितुरङ्गाद्या मुख्यपात्रेोपकारका नाटये प्रवेशायोग्याश्च आणिनस्त्वल संमताः ।। शीतकृशे प्राह्मवायौ शब्दानुकरणेऽपि च । नखक्षते मृगाक्षीणां निर्दयाघरखण्डने ।। अव्यक्तमयसत्वं च रसभावसमाश्रयम्। रोमात्राश्रुप्रभृतिभेिदैर्वोद्धव्यमञ्जसा। तस्मात्सत्वमिदं प्रेो तर्छनटयस्य जीवितम् ॥ नाले कुभः ऋत्रावली | सन्दष्ठद्शनोष्ठ यः सन्क्ष्टः परिकीर्तितः । सन्दिग्धलक्ष्णै यक्ष पदसन्दिग्धमुच्यते । सन्देशहारकः-(तः) सन्देश इरते यस्तु यावद्वाचिकमाक्षकम्। नापरं किमपेक्ष्येत तस्मात्सन्देशाहारक । यथोक्त यो वदत्यर्थे समासातूभयोर्वशे । कार्यजाते मूनीन्द्रेण प्रोक्तः सन्देशहारकः । म अरालस्य यदाङ्गुष्टतर्जन्यौ सुसङ्गतैौ। तलमध्येो मनाङ्कनम्रः स सन्देशामिधः करः । अग्रजो मुखजथैव पार्श्वजश्चेत्ययं विधा। प्रावुखोऽग्रज इत्युक्तः संमुखो मुखजो अत । पार्श्वजः स्यात्पार्श्वमुखरूयाणां कर्म कथ्यते । सूक्ष्मे प्रसूनाबचये कण्ठकोद्धरणे तथा । कुसुमोद्धरणे वृत्ताद्ग्रसन्देश इध्यते । वत्यञ्जनालाकादिपूरणेष्वग्रजी पुष्पाणां मथने केशपर्णसूत्रमहेषु च । खलान्तालम्बनचैव मुखसन्देश इष्यते । धारणे यज्ञसूत्रस्य गुणनिक्षेपणे तथा । मणिमुक्ताप्रवालानां छेदेन तत्त्वभाषणे॥ विश्वकर्मण्यलक्ताविनिपीडादी च पाश्र्वजः। पार्थाभिमुखहस्ताभ्यां िनर्धनत्वनिरूपणम् ॥ म उभयोर्हस्तयोः पात: सन्निपात इति स्मृतः । भरतस्मि चत्वारः सन्निपाताः स्युः प्रादेशिश्यां प्रकीर्तिताः। शेषाः प्रत्येकमाख्याताः सन्निपातद्वयान्विताः। शुभः