पृष्ठम्:भरतकोशः-३.pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्त्वतेऽपि विधिरेष शस्यते पृष्ठतो भ्रमणमल शरुगम्। शास्रपातविधेिरत्र पादयोः कीर्तिता भरतमुख्यसूरिभिः। कुम्भः भारते न गदितस्तु कैशिकः शक्षपातनविधिस्तु मूर्छने । सौष्ठवान्वितनुः सुशिक्षितो न्यायवर्गमयमाश्रितो नटः । शक्तितोमरशिरश्शासनादिकान्यायुधान्यपिसमाचरेत्सुखम्। सौष्ठवे वरमुशन्ति तद्विधो येन तेन हि विनाकृतः परम् ॥ युद्धकर्मणि च नर्तनोऽपि येवानैव भान्तिनिखिला:प्रविचारा न प्रहारविधिरख वास्तवः संज्ञयैव निखिलो विधीयते । तं प्रहारमथवाऽन्न दर्शयेदैन्द्रजालिकमधात्र मायया। एतेन्याय : प्रयोक्तव्याधारीमेिइशस्रमोक्षणे। शाखाङ्करनृत्तानां लक्षणानि शाखाङ्करं च नृतं च प्रधानं तेऽनुक्रमात्। शाखा स्यान्नृतहस्तानां वैचित्र्यात्मविवर्तना अङ्करः सूचना रूपो भूतवाक्यैकगोचरः । भविष्यद्वाक्यविषयः स तु सूचीति कथ्यते । शान्तस्य परभावधि यथा प्रधानं महतः कारणं लोकवत्र्मने। लभ्यते महतः कश्चिन्न हेतुः परमार्थतः । प्रधानसाम्यावस्थायां लर्य यान्ति यथा गुण । तथा शान्ते विलीयन्ते रसाः सम्यगुपासिताः। आत्मारामस्वरूपायावस्था तस्यामितो रस प्रलीयन्ते ततो नैव रसः शान्तः पृथक् भवेत् । शान्तस्य शमस्थायिकत्वम् शामस्थायी भवेच्छान्तः सर्वत्र समदर्शनः तत्त्वज्ञानावृतेच्छो: स तमोरागपरिक्षयात् ॥ ९५० कुम्भ कुम्भः शान्तो रस न यस दुःखं न सुखं न चिन्ता न द्वेषमोहौ न च काचि - दिच्छा । रसस्तु शान्तः कथितो मुनीन्द्वैः सर्वेषु भावेषु समान निर्वेदतो भवति सर्वविहीनरूप सम्यगाक्रोशाजनितोऽपि च रागद्दीन शान्तोऽयमुतमजनप्रकृती रसो ये इत्यादिष्ट इंह चापि तमोविहीनः । वैराग्यजातत्वैकंज्ञानाच्छास्त्रार्थचिन्तनात् । साधुदौर्गत्यसन्दर्शदागमश्रवणादपि । इष्टदेवतानुमहणे द्मस्थैर्यादिभिः सदा । सयादिशीलनादेषु रसः शान्तः प्रजायते । मुखनेवप्रसादेन मितपूर्वप्रियोक्तिभिः। स्थिरालोकनवैराग्यश्लाधासर्वाश्रमधरै । विविक्तदेवस्थानादिवासैर्वात्सल्यशान्तिभिः । परनिन्दादिानाचैः शान्तस्याभेिनो भवेत् ।। इशून्यदृष्टिर्निरालम्बो ध्यानधारणतत्परः । सभ: सर्वेषु भावेषु भवेच्छान्तरसो तत धृतिर्मतिर्जुगुप्साऽवहित्थेो निद्रा स्मृतिः क्षमा अविरोधम्लानिलज्जाश्च वितकौत्सुक्यसंमदा। स च शान्ते प्रयोक्तव्यः एते भावा मनीषिभिः । षष्ठयाऽद्वतेऽधिकवया हरिदैवतोऽपि निर्वेदभावजनितेऽपि च रागहीनः । शुद्धान्ववायजनितो विमलाङ्गयष्टि शान्तो रसः सकलसज्जनताश्रयश्च शान्तस्वरूपम् नाटकेऽभिनये नास्ति शान्तस्य व्यभिचारिभिः अन्येषां तु कुतशक्तिः शान्तस्य परिपेषणे । अङ्गीकुर्वन्ति चेत्केचिद्रसं शोन्तं मनीषिणः । करिष्ये कथनं तस्य रसानां प्रविचारणे स्वीयं निमित्तमासाद्य शान्तादुत्पद्यते रसः । पुनर्निमित्तापाये च शान्त एव प्रलीयते ॥ नृत्यन्ति शबरा यत्र गायन्तो निजभाषया । तदिदं शाबरं नृत्यमित्याहुर्नुत्यकोविदाः । म ।