पृष्ठम्:भरतकोशः-३.pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सधूक्षेपकटाक्षा च रसे शृङ्गारसंझिके । क्रमेणाकुञ्चितपुटा किश्चिद्विभ्रान्ततारका। अभ्रष्टोष्ठपुटा सा भ्राशोषमन्थरतारक नासाग्रनिहिता दृष्टिः करुणा करुणं रसे विमृद्धपुटतारा तु कूरा रूक्षा तथारुणा । भूभङ्गकुटिलो धृत्वा क्षौद्री रौद्ररसे भवेत्। क्षुब्धा विकसिता दीप्ता गम्भीरा समतारका । उत्फुलमध्या द्रष्टिः स्याद्वी वीररसाश्रये ।। उतादिस्फुरत्तारास्तब्धोद्वतपुटद्वय दृष्टिर्भयान्तका प्रोक्ता भयानकरसे मता ।। संश्लिष्टस्थिरपद्मा तु धृणोपप्लुतारका निकुञ्चितपुटोपान्ता बीभत्सा दृष्टिरिष्यते । सौम्या विकसिता तारा साश्रयोद्वत्ततारका। समाकुञ्चितपक्ष्माग्रा दृष्टिः स्याद्द्रुतादूते सोमराजदेव. अष्टावेव रसा इति केचित्, , दशेत्यपरे। तेन केचेिन्नवेति संशयलोलानां प्रीतये किञ्चिदुच्यते । तथाहि-विभावादिभि स्वादतां नीयमानो भावः स्थायी रस इति प्रत्यक्षायेि । स च स्वदानन्दलक्षणेो, वस्तुत ऐकोऽपि, उपाधिभेदादनेकधा भिद्य ते । उपाधिरपि चिद्भूमिकैव । ताश्च ग्राधान्याश्चतस्रः, विक्रासो विस्तरः, क्षोभो, विक्षेप इति । तत्र विकासोपाधिकः खादः शृङ्गारः । विस्तारोपाधिको वीरः । क्षोभोपाधिको बीभत्सः । विक्षेपोपाधिको रौद्रः । हास्यादूतभयानकरुणेष्वपि विकासा दिरेवोपाधिरिति हास्यादीनां चतुर्ण शृङ्गारादिजन्यत्वम्। यदुक्तः स्वादुकाव्यार्थसंभेदादात्मानन्दसमुद्भव विकासविस्तरक्षोभविक्षेपैस्स चतुर्विध श्रृङ्गारवीरबीभत्सरौद्रेषु मनसः क्रमात् । हास्वाद्भतभयोत्कर्षकरुणानां त एव हि । अतस्तञ्जन्यता तेषां मदत एवावधारणम् । अल विकासादिचित्संभेदाभेदेन हेतुहेतुमद्भाव एव रसानां विवक्षितः, न तु कार्यकारणभावः, तेषां प्रत्येदैः विभावादि शृङ्गारानुकृतेिय तु स हास्य इति संज्ञित वीरस्य चापि यत्कर्म सोद्भतः परिकीर्तितः । इति भरत तेषां सात्त्विकादिसंभेदैक्यमेव स्फुटं विभाव्यते । शृङ्गारहास्यो र्विकासः, वीराद्भतयोर्विस्तरः, वीभत्सभयानकयोः क्षोभः, रौद्र करुणयोर्विक्षेप इति । तेषां द्वयोर्द्धयोः संभेदैक्येऽपि नास्त्येव साङ्कर्यम्, प्रतिरसं नियतभावादेव विकासादिरूपविशेषयापि सिद्धेः । शृङ्गारविभावादेरन्थ एव हास्यविभावादिः । अतस्त जन्येऽपि विकामरूपेऽपि उपाधौ कोऽपि विशेष: काव्ये कल्प्यः, येन भेदः सिद्धयेन् तयोर्हतुहेतुमद्भावोऽपि सिद्ध: । तत्र हेतुत्वं तत्प्रयोजकमेव । एतदुक्तं भवति। धागाधिरूढ इव शृङ्गारे, प्रत्यासीदति च हास्ये तदुन्मेषहेतोर्विकासात्मिकायाश्चित्तभूमेस्समुद्भावनप्रवीणकारण कलापव्यापारस्य स्वकार्यनिर्वहणसिद्धेः पूर्वोत्तरायास्तथाविधाया भूमिकायाः शृङ्गारानुगुणाया हास्यंप्रत्यनुकूलत्वाच, समान कारयोः परस्परोपातकार्यकारणप्ररूठप्रागल्भ्थयो, अत्योन्यसङ्क लनसातत्यप्रत्यस्तमितभेदवाद्योः, तुल्याधिकारयोः, समरसी भूतयो, चित्तभूमिकयरेकात्मतायाः प्रतीतेः श्रृङ्गारबीजस्य हास्यं प्रति िनमित्तत्वप्रतीतिसिद्ध सिदैवेयं वाचोयुक्तिः “ शृङ्गा राद्धि भवेद्धास्य' इति । इयमेव प्रक्रिया वीरादुतादिद्वयेष्वपि द्रष्टव्या । एतच विकासादिभेदचतुष्टयस्यैव रसभेदोपाधि कत्वेन सङ्ग्रहात्। रसविवेक रसस्तरूपविचारः ननु कोऽयं रसो नाम पदार्थस्तद्विचार्यते। रस्ते व सहृदयैः स्वयं वा रस्यते रसः । सामाजिकोन् रसयति ते वायं रसयन्ति च रसनं वा नटेना विलवृत्तिर्नटस्य यः । रसतीति रसो वा स्यात् रसयत्यथवा रसः राम: स्थाद्वा न वेत्यादिप्रतीतिं नटसंश्रिताम् अथवा रस्यते सभ्यै रामोऽयमिति तत्त्वतः। इत्यादिपक्षस्तद्विद्भिराता रसरूपणे । रसस्वरूपे लोछटमतम् विभावैर्जनितो भावोऽनुभावैरनुबोधित व्यभिचारिभिरास्फीतो रस इत्यभिधीयते । स चानुकार्ये रामादौ वर्तते मुख्यवृत्तितः । तद्रपनानुसन्धानान्नर्तकेऽपीति लोल्लटः । कुम्भ