पृष्ठम्:भरतकोशः-३.pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

योग्यभ्यासशिक्षा न चातिव्यग्रमनसा तारकाया विलोलितम् शक्यक्रियं न वा योग्यभ्यासशिक्षात्र कारयाम् । स्रम्भादावपि सा तुल्ययोगक्षेमोऽत्र दृश्यते । एकाग्रबुध्यवसाय शून्ये नाट्ये नटेन च । किञ्चिदप्यधुना कर्तुमशक्यं विद्यते काचित् । यौवतम्-लास्यम् भधुराबद्धलीलाभिर्नटीभिर्यत्र नृत्यते । कशीकरणविद्याभं तलास्यं यौवतं स्मृतम् । सीतनारायण: यौवनम् पीवरोरुजघनै कठिनोछेः पीनमूलधनसंभ्रमस्तनम् मन्मथस्य मृतजीवनौषधं यौवनं निगदितं द्वितीयकम् ।। प्रथमम् यौवनवितयं पात्रे प्रथमादिविभेदतः । नीचाधारस्तनाभेोगकपोलजधनोरुजम् सुरतं प्रति सोत्साहं प्रथमं यौवनं मतम् । द्वितीयम् पीनोरुजघनं पीनकठिनोचधनस्तनाम् । जीवितं यौवनस्योत्तं द्वितीयं यौवनं बुधैः।। तृतीयम् उन्मादकं प्रियाजुष्टं सम्पन्नरतिनैपुणम् । कामशिक्षितभावं तु तृतीयं यौवनं विदुः रक्तः रक्तः स्याद्ठणो रौद्रे करुणेऽद्भतवीरये कुम्भः कुम्भः सङ्गीतनारायणः ९१७ कुम्भः रक्तवांशिकलक्षणम् स्थानकाभिनयाभङ्गो गमकाव्यः स्फुटाक्षर शीघ्रहस्तकलाभिज्ञः वांशिक रक्त उच्यते । सङ्गीतनारायणे तन्न रक्षेिजनास्थाप्या अप्रमत्ताः समन्ततः । एवं विधानसभ्युक्ता नाट्यवेश्मभुवो विदु रङ्गशाब्देन तत्कमच्यते तैौर्यंत्रिकाश्रितम् । तत्पूर्वभागं विद्वद्भिः पूर्वरङ्ग उदीरितः ।। चतुतास्तु गुर्वन्ता रङ्गताले प्रतिष्ठिता ऑकारभांत्रयं दतै विषादे सर्वसिद्धये । प्रदेयेति नभोन्तो ये शृङ्गारे मन्वनायकः । शृङ्गारसदेवानामयं मन्त्रः प्रकाशक ओं ॐ अं अं विद्महे सर्वसिद्धिप्रदाय नमः । ऑ हंकारमात्रयं दत्वा प्रमथाधिपतयेदं । मां रक्ष युग्मोन्नमो न हास्यमन्त्रेोयमीरितः । ओं हैं हं हं प्रमथाधिपतये मां रक्षरक्ष ओं नमः । ऑ मिङ्कारत्रयमिन्द्राय वज्रपाताय इत्यपि रक्ष रक्षेतेि हैं फट् मन्त्रेो वीररसे मत । ओं ई ई इ इन्द्राय वज्रपाणये रक्ष रक्ष हुंफट् । इति वीर रसे ओं ब्रह्मणो वास्तुपुरुषाय सर्वलोकपितामहाय नाट्याक्-ि पतये वाथमो चमोन्तोदूतोनमः ? । ओ ब्रह्मणे वास्तुपुरुषाय सर्वलोकपितामहाय नाट्याधि पतये नमः । ओं हूं कारद्वयं सर्वविघ्रविनाशाय च । हूँ अघोरा पदं मूर्तये इति पदं ततः । महाकालाय नमोऽन्तो बीभत्समन्त्र ईरितः ।। ओं हुँ हुं सर्वविघ्रविनाशनाय चण्डरूपाय सर्वकाभप्रदाय हुँ अघोराम मूर्तये महाकालाय नमः इति बीभत्से। ओं नमो भूतपतये प्रेतपरिवृताय च । भूतहृदयाय पदं कालरूपिण इत्यपि। ठकारयुगलं चान्ते मन्त्र एष भयानके ।।