पृष्ठम्:भरतकोशः-३.pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धावयवो धातुः स चतुध निगद्यते । उद्वाहः प्रथमस्तत्र ततो मेलापकध्रवैौ । आभोगश्चेति तेषां च क्रमालक्ष्माभिदध्महे । द्भाहः प्रथमेो भागस्ततो मेलापकः स्मृतः। भ्रवत्वाश्च धवः पश्चादाभोगास्त्वन्तिमेो मतः । प्रमोदलक्षणम् स्वरैः पदैश्च पाटैश्च तेन्नकैस्सालसंयुतः । प्रमोदाख्यः प्रबन्धेोऽयं प्रमोदजननः सदा । भ्रवेन च प्रवेशे स्तः खश्वनत्कुंटकाभिधे । वस्तुप्रयोगग्रकृतिं रसं भावभृतुं वयः । देशे कॉलमवस्थां च ज्ञात्वा तत्तद्विधा वा । प्रयोक्तव्या प्रयोगः प्रयेोगः पुनरुच्यते प्रयोगलक्षणम् आदौ गीतमथो वाद्य ततो नृतं च योजयेत् । एतेषां मेलनं यत्त स प्रयोग उदाहृतः । प्ररोचकं च कर्तव्यं गुरुप्रायेऽक्षरान्वितम् । यथाक्षरेण यश्रेण सन्निपातैस्तथाष्टभिः । विविधैककसंयुक्त कैशिकीजातिमाश्रितम्। प्रकृतयैव कार्यस्य सिद्धत्वस्यानुसूचकम्। उपायोपेयभावेन कार्यसिद्धिव्यपाश्रयम् । कविनाम्रालङ्कतै च वाक्यं यत्र प्रयुज्यते । सा स्यात्प्ररोचना नाम वस्तुप्रस्तावनाभिधा । याः प्रकृष्टा विवित्राश्च गतयसपरिक्रमाः । त एव प्रविचाराः स्युः शस्त्रमोक्षणगोचर वेमभूपालः वपदाः | प्रावचारविधि भारते निगदिता: प्रविचाराः शास्त्रमोक्षणविचारगोचराः । वामकेन विभृयात्फलकान्तं दक्षिणेन तु कृपाणमादरात्। तौ करावुपसृतै विनिधायाक्षिप्यतौ च तत एव शिक्षितः । भ्रामणं च फलकस्य विदध्यातूभयोराय सपाश्र्वयोः । भ्रामयेच परितः शिरसस्तत्खङ्गिनै त्वथ शिरःकपोलयोः। अन्तरा च मणिबन्धतस्तयोद्वेष्टयेव विधिना प्रयन्नवाम् ॥ भ्रामणं च फलकस्य विद्ध्यात्संभ्रमेदुपरिमस्तकं यथा । भारते विधिरयं मुहुर्मुहुः शास्त्रपात उचितः कटीतटे । कुन्मः नानाविधा देशभाषावेषाचारा यथेोचितम् । प्रवर्तयन्ति व्यापाराः प्रवृत्तिः सा प्रकीर्तिता । प्रवृत्तिभेद दाक्षिणात्या तथावन्ती पाञ्चाली चोडूमागधी । इत्येषा नाट्यचतुरैश्चतुर्धा परिकीर्तिता । बेमभूपाल प्रवृत्तिभेदविचार न तु देशास्तु बहवो दृश्यन्ते धरणीतले । चतुर्विधत्वमेतेषां कथङ्कोरं प्रतीयते । अत्रोच्यते बहुविधा देशाः सन्तु तथापि यत् । लोकानुकरणं नाट् चतुर्वेत्तिसमाश्रयम् । अतस्तद्विषयत्वेन चतस्रः स्युः प्रवृत्तयः ॥ प्रवेशः-कलामानम् अथ चाकुञ्चने ज्ञेयं प्रवेशाख्यमधस्तलम् असूचितस्य पात्रस्य प्रवेशो नैव दृश्यते । ततः प्रधानपात्राणां सूचकः स्यात्प्रवेशकः श्रृङ्गाराङ्कतहास्येषु प्रसन्नो निर्मलो मतः। वेभभूपाल कुम्भः