पृष्ठम्:भरतकोशः-३.pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूत्रधारप्रवेशेोऽत्र द्वितीये परिवर्तके । तत्पारिपाश्र्वकौ स्यातां सभृङ्गारकजर्जरौ । कृतमङ्गलसंस्कारा वैष्णवस्थानकं स्थिताः । प्रविशेयुस्ततः सूत्रधारः पञ्चपदीं ब्रजेत्। दक्षिणे चरणे पाश्चक्रान्तचा समाक्षिपन् । तालखयं ततस्सूच्या वामं चरणमाक्षिपेत् । सद्वय: सूत्रधारोऽथ गत्वा पञ्चपदीं शनैः । रङ्गमध्ये पुष्पमोझैः पूजयेत्पद्मसम्भवम् नमस्कुर्यात्ततो देवं मनोवाक्कायकर्मभिः । कलाभिः स्यात् षोडशभिः पञ्चपद्यां प्रवेशनम् पुष्पाञ्जलिविमोक्षे तु कलाषट्कमुदीरितम् । तावतैव तु काले तद्दितीयपरिवर्तके । नमस्कायै देवतानां तृतीये परिवर्तके ।। आक्रमेन्मण्डलं पूर्ण दक्षिणं पाद्भुद्धरन् । सूच्यासल्ये च दक्षं च विद्वद्दक्षिणहेतुकम् ? पूर्वरङ्गस्थितिः नृत्यालोकनतत्परे नरपतै श्रीसूत्रधारः कृती नीत्वा चीनपटीलसञ्जवनिका मध्ये नटीमुत्तमाम्। रागालायमदङ्गतालरवनां रम्यां समावेदिनीं संपाद्यारभटीं द्रतं किल नयेदन्तः पर्टी दूरत अथाभिधास्य सम्यक् पूर्वरङ्गाङ्गसङ्कहम्। प्रत्याहारोऽवतरणमाश्रावणारम्भन्क्रपाणी च। परिघनाथ संघोटनाथ मार्गासारितं च । आसारितोत्थापिन्यौ नान्दीशुष्कावकृष्टाङ्काः ।। रङ्गद्वारं चारीं सैव महत्पूर्वका विगतभ । प्रस्तावनेति कथितान्येतान्यङ्गानि भारते पूर्वेः । अद्वैरेभिरिहाङ्गी निष्पन्नः पूर्वरङ्गोऽयम् तेभ्यो नैवाभिन्नो भिन्नोऽपि प्रेक्षते कत्सिद्भिः । उत्थापनीप्रयोगे प्राधान्येनोपकल्पते । प्रत्याहाराद्ययं याता प्राच्योदीच्यां गतामत्र । अत्राश्रावणकाधं यदङ्गषट्कं क्रमेणोक्तम् । कुम्भः कुम्भः ८८९ अपदं तत्र तु गीतं निर्गीतं कीर्तितं तच तस्मात्पदैनिबद्धं प्रयोज्यमाश्रवणादिस्तु ॥ प्रयाणे तु बहितमन्तर्भवनिकागतैः। तन्त्रीभाण्डकृतं तज्झै प्रयोक्तव्यमतन्द्रितैः । ततो जवनिकां हित्वा समत्तकुत: सह । नृत्यपाठ्यकृतानि स्युः पूर्वराङ्गकानि तु । ततः पुनः प्रयोक्तात्र मन्कादेस्तु मध्यतः । प्रयोज्यं किञ्चिदेकं तु वर्धमानमथापि वा । हे प्रयुञ्जीत ततोऽन्याङ्गसमुचयम्। पूर्वरङ्गाङ्गभेदा प्रयोक्तव्यश्च साङ्गोऽयं तदङ्गान्यमिदध्महे। प्रत्याहारोऽवतरणं ततश्चाश्रावणा मत सङ्कट्टना ततो मार्गसारितासारिते तथा । उत्थापना परीवतीं नान्दी शुष्कापकृष्टका रङ्गद्वारं ततश्चारी महाचरीति तै ततः । प्रस्तावनेति भरतः क्रमादुददिान्मुनिः । कुट्टितश्धरण: पृष्ठ लुठेितोऽङ्गलिपृष्ठत पुनश्च कुट्टित: स्थाने सा पृप्लुठिताभिधा । पृष्टोत्तानतलम् भूलग्नाङ्गलिपृष्टोऽङ्कि’ पश्चादेकोऽपरः पुरः समः पृष्टोत्तानतलमिति शास्त्रविचक्षणैः । सङ्गीतमुक्तावली देवेन्द्रकृता भूमिलग्नाङ्गलीं पृष्टः पश्चात्पादस्तथैककः । परः समो यत्रपादः पृष्टोत्तानतलं हि तत्। दृक्षः कलासु सर्वासु सभाजनमनोहरा । सुरेखो नृत्यशास्रज्ञश्चण्डः शारीरपेशलः । सभावरससंयुक्तो यो नृत्यत स पेरणि विप्रदासः कुम्भ