पृष्ठम्:भरतकोशः-३.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नाव्यस्य पृथक्त्वम् अङ्गेषु मुकुटादीनां शब्देषु यमकादिवन् । ससंस्कारविशेषत्वात्पृथक्त्वं कस्यचिन्मतम् नाट्यस्वरूपम् यानि शास्त्राणि थे धर्मा यानि शिल्पानि याः क्रियाः । लोकधर्मप्रवृत्तानि नाटयमित्यभिधीयते । नाटयाङ्गानि विच्छेदश्चापेणं चाथ विसर्गश्चानुबन्धकाः दीपनं च प्रशमनं षडङ्गानीति मन्वते । नाट्यालङ्काराः उच्चेो दीप्तश्च मन्द्रश्च नीचदुतविलम्बिताः। इत्येते षडलङ्कारा नाटयविद्भिर्निरूपितः । नाटये कर्तव्यं भूषणम् नाटये प्रयोगे निपुणैर्न कार्य भूषणं गुरु । यतस्तेन तु पात्राणां खेदः सञ्जायते सदा । भूषणं लघु नाटयेषु कर्तव्यं जतुपूरितम् नाट्य प्रमाणम् यथा धुतादिके मूनि क्रियाभेदाद्भवेद्भिदा। एवं भूषविभेदेन भेद इत्येव सुन्दरम् । नाट्योवितान्यायुधानि एवमाहार्यरचना नानादेशासमुद्भवा आचायेबुद्धया कर्तव्या बहुयुक्तिसमेतया । नाटये योग्यान्यायुधानि कोदण्डंप्रभृतीनि तु। धनुःशास्त्रोक्तमोर्गेण कुर्यान्नाटये यथेचितम् । छेद्य भेचं प्रहरणं नैव नाटेय युज्यते । संज्ञामात्रेण कर्तव्यमायुधस्थ विमोचनम् । यद्वा शिक्षाविशेपेण विद्यया माययाथवा । शास्त्रमोक्षो विधातव्यो रङ्गमध्ये प्रयोक्तभिः । कुम्भः वेमभूपालः वेभभूपाल वेमभूपाल ८७१ | नाटयोत्पत्ति इहानुभूयते ब्रह्मा शक्रेणाभ्यर्थितः पुरा। चकाराकृष्यवेदेभ्यो नाट्यवेदन्तु पञ्चमम् ।। ऋग्भ्यः पाठ्यमभूद्रीतं सामभ्यः समपद्यत । यजुभ्येऽभिनया जाता रसाश्चाथर्वणोऽभवन् । इहोपवेदा वेदाश्च चत्वारः कथिताः श्रुतौ । तत्रोपवेदो गान्धर्वः शिवेनोक्तः स्वयंभुवे। तेनापि भरतायोक्तं तेन मत्यें प्रचारित. ॥ सङ्गीतसर्वखम् नकारः प्राणमानन्दो दकारमनलं विदुः। जातः प्राणाग्निसंयोगात्तेन नादोऽभिधीयते । नादोऽतिसूक्ष्मः सुक्ष्मश्च पुष्टोऽपुष्टश्च कृत्रिमः। इति पप्रचविधा धत्ते पञ्चस्थानस्थिताः क्रमात् ।। सङ्गीतमकरन्द् नादशब्दनिष्पत्ति इति पश्चाभिधे नूनमाविर्भावयति ध्वनिम्। नादोऽयं नदतेर्धातोरसौ पञ्चविधः स्मृतः । श्रीरागो यत्र रागः स्यान्मन्द्रतालोऽथ कैशिकी । वृत्ती रीतिस्तु पाञ्चाली रसः शृङ्गार एव च । शुस्तु कथ्यते वर्णो ब्राइवधेिष्टातृदैवतम्। ब्राह्म कुलै समादिष्टा सेयं नादवती बुधैः ॥ पञ्च यत्रैन्दवगुणात्वेकस्रविष्टप गुण: सानुप्रारास्त्रयः पादा भवन्तीति मुनेर्मतम् । ! ।। नादरूपः स्मृते ब्रह्मा नादरूपो जनार्दनः। नाद्रूपा पराशक्तिः नादरूपो महेश्वरः । यदुक्तं ब्रह्मणः स्थानं ब्रह्मग्रन्थश्च यः स्मृतः । तन्मध्ये संस्थितः प्राणः प्राणाद्वह्निसमुद्भवः ।